Go To Mantra
Viewed 82 times

आज्यं॑ बिभर्ति घृ॒तम॑स्य॒ रेतः॑ साह॒स्रः पोष॒स्तमु॑ य॒ज्ञमा॑हुः। इन्द्र॑स्य रू॒पमृ॑ष॒भो वसा॑नः॒ सो अ॒स्मान्दे॑वाः शि॒व ऐतु॑ द॒त्तः ॥

Mantra Audio
Pad Path

आज्यम् । बिभर्ति । घृतम् । अस्य । रेत: । साहस्र: । पोष: । तम् । ऊं इति । यज्ञम् । आहु: । इन्द्रस्य । रूपम् । ऋषभ: । वसान: । स: । अस्मान् । देवा: । शिव: । आ । एतु । दत्त: ॥४.७॥

Atharvaveda » Kand:9» Sukta:4» Paryayah:0» Mantra:7


PANDIT KSHEMKARANDAS TRIVEDI

आत्मा की उन्नति का उपदेश।

Word-Meaning: - (अस्य) इस [परमेश्वर] का (घृतम्) प्रकाशयुक्त (रेतः) सामर्थ्य (आज्यम्) सब उपाय (बिभर्ति) धारण करता है, (साहस्रः) वह सहस्रों पराक्रमयुक्त (पोषः) पोषक है, (तम् उ) उसको ही (यज्ञम्) यज्ञ [संयोजक-वियोजक] (आहुः) कहते हैं। (देवाः) हे विद्वान् लोगो ! (इन्द्रस्य) ऐश्वर्य का (रूपम्) रूप (वसानः) धारण करता हुआ (शिवः) मङ्गलकारी, (दत्तः) दिया हुआ [हृदय में रक्खा गया] (सः) वह (ऋषभः) सर्वदर्शक परमेश्वर (अस्मान्) हम लोगों को (आ एतु) अच्छे प्रकार प्राप्त हो ॥७॥
Connotation: - मनुष्य सर्वपोषक परमेश्वर का आश्रय लेकर सर्वदा पुरुषार्थ करें ॥७॥
Footnote: ७−(आज्यम्) अ० ९।२।१। सर्वोपायम् (बिभर्ति) धरति (घृतम्) दीप्तम् (अस्य) ऋषभस्य (रेतः) सामर्थ्यम् (साहस्रः) म० १। सहस्रपराक्रमयुक्तः (पोषः) पोषकः (तम्) (उ) निश्चयेन (यज्ञम्) संयोजकवियोजकम् (आहुः) कथयन्ति विद्वांसः (इन्द्रस्य) ऐश्वर्यस्य (रूपम्) स्वरूपम् (ऋषभः) म–० १। सर्वदर्शकः (वसानः) धारयन् (सः) (अस्मान्) पुरुषार्थिनः (देवाः) हे विद्वांसः (शिवः) मङ्गलकारी (आ एतु) सम्यक् प्राप्नोतु (दत्तः) आत्मनि रक्षिता ॥