Go To Mantra
Viewed 71 times

पि॒शङ्ग॑रूपो नभ॒सो व॑यो॒धा ऐ॒न्द्रः शुष्मो॑ वि॒श्वरू॑पो न॒ आग॑न्। आयु॑र॒स्मभ्यं॒ दध॑त्प्र॒जां च॑ रा॒यश्च॒ पोषै॑र॒भि नः॑ सचताम् ॥

Mantra Audio
Pad Path

पिशङ्गऽरूप: । नभस: । वय:ऽधा: । ऐन्द्र: । शुष्म: । विश्वऽरूप: । न: । आ । अगन् । आयु: । अस्मभ्यम् । दधत् । प्रऽजाम् । च । राय: । च । पोषै: । अभि । न: । सचताम् ॥४.२३॥

Atharvaveda » Kand:9» Sukta:4» Paryayah:0» Mantra:22


PANDIT KSHEMKARANDAS TRIVEDI

आत्मा की उन्नति का उपदेश।

Word-Meaning: - (पिशङ्गरूपः) अवयवों का रूप करनेवाला, (नभसः) सूर्य वा मेघ वा आकाश का (वयोधाः) जीवन धारण करनेवाला, (ऐन्द्रः) बड़े ऐश्वर्यवालों का स्वामी, (शुष्मः) बलवान् और (विश्वरूपः) सब जगत् का रूप करनेवाला [परमेश्वर] (नः) हमको (आ अगन्) प्राप्त हुआ है। (च) और (अस्मभ्यम्) हमको (आयुः) आयु (च) और (प्रजाम्) प्रजा [सन्तान आदि] (दधत्) देता हुआ वह (रायः) धन की (पोषैः) वृद्धियों से (नः) हमें (अभि) सब ओर से (सचताम्) सींचे ॥२२॥
Connotation: - परमेश्वर व्यष्टिरूप और समष्टिरूप जगत् और सब लोकों का धारण करनेवाला है, उस सर्वशक्तिमान् सर्वान्तर्यामी की उपासना से मनुष्य अपनी वृद्धि करें ॥२२॥
Footnote: २२−(पिशङ्गरूपः) विडादिभ्यः कित्। उ० १।१२१। पिश अवयवे-अङ्गच्, कित्। खष्पशिल्पशष्प०। उ० ३।२८। रु शब्दे-प प्रत्ययः, दीर्घः। यद्वा रूपं रूपस्य दर्शने करणे वा-अच्। अवयवानां रूपं दर्शनं यस्मात् सः (नभसः) अ–० २।७९।२। सूर्यस्य मेघस्याकाशस्य वा (वयोधाः) जीवनधारकः (ऐन्द्रः) इन्द्राणामैश्वर्यवतां स्वामी (शुष्मः) बलवान् (विश्वरूपः) सर्वस्य जगतो रूपकर्ता (नः) अस्मान् (आ अगन्) प्राप्तवान् (आयुः) जीवनम् (अस्मभ्यम्) (दधत्) धारयन् (प्रजाम्) (च) (रायः) धनस्य (पोषैः) वृद्धिभिः (अभि) सर्वतः (नः) अस्मान् (सचताम्) षच सेचने। सिञ्चतु ॥