Go To Mantra
Viewed 74 times

काम॒स्येन्द्र॑स्य॒ वरु॑णस्य॒ राज्ञो॒ विष्णो॒र्बले॑न सवि॒तुः स॒वेन॑। अ॒ग्नेर्हो॒त्रेण॒ प्र णु॑दे स॒पत्ना॑ञ्छ॒म्बीव॒ नाव॑मुद॒केषु॒ धीरः॑ ॥

Mantra Audio
Pad Path

कामस्य । इन्द्रस्य । वरुणस्य । राज्ञ: । विष्णो: । बलेन । सवितु: । सवेन । अग्ने: । होत्रेण । प्र । नुदे । सऽपत्नान् । शम्बीऽइव । नावम् । उदकेषु । धीर: ॥२.६॥

Atharvaveda » Kand:9» Sukta:2» Paryayah:0» Mantra:6


PANDIT KSHEMKARANDAS TRIVEDI

ऐश्वर्य की प्राप्ति का उपदेश।

Word-Meaning: - (इन्द्रस्य) बड़े ऐश्वर्यवाले, (वरुणस्य) श्रेष्ठ, (राज्ञः) राजा, (विष्णोः) सर्वव्यापक, (सवितुः) सर्वप्रेरक, (अग्नेः) सर्वज्ञ, (कामस्य) कामनायोग्य [परमेश्वर] के (बलेन) बल से, (सवेन) ऐश्वर्य से और (होत्रेण) दान से (सपत्नान्) वैरियों को (प्र णुदे) मैं भगाता हूँ, (इव) जैसे (धीरः) धीर (शम्बी) कर्णधार [नाव चलानेवाला] (नावम्) नाव को (उदकेषु) जलों के भीतर [चलाता है] ॥६॥
Connotation: - विद्वान् लोग परमेश्वर की महिमा को प्राप्त होकर अपने बाहिरी और भीतरी वैरियों को ऐसा वश में रखता है, जैसे चतुर नाविक गहरे जल में नाव को चलाता है ॥६॥
Footnote: ६−(कामस्य) कमनीयस्य परमेश्वरस्य (इन्द्रस्य) परमैश्वर्यवतः (वरुणस्य) श्रेष्ठस्य (राज्ञः) शासकस्य (विष्णोः) सर्वव्यापकस्य (बलेन) (सवितुः) सर्वप्रेरकस्य (सवेन) ऐश्वर्येण (अग्नेः) सर्वज्ञस्य (होत्रेण) दानेन (प्र णुदे) प्रेरयामि। वशीकरोमि (सपत्नान्) शत्रून् (शम्बी) शम्ब सम्बन्धने गतौ च-अच्। यद्वा, शमेर्बन्। उ० ४।९४। शमु उपशमे-बन्। यद्वा, शातयतेर्बन्। शम्ब इति वज्रनाम शमयतेर्वा शातयतेर्वा-निरु० ५।˜२४। अत इनिठनौ। पा० ५।२।११५। शम्ब-इनि। वज्रवान्। कर्णधारः (इव) यथा (नावम्) पोतम् (उदकेषु) गम्भीरजलेषु (धीरः) धीमान्। प्रवीणः। पण्डितः ॥