Go To Mantra
Viewed 153 times

सा ते॑ काम दुहि॒ता धे॒नुरु॑च्यते॒ यामा॒हुर्वाचं॑ क॒वयो॑ वि॒राज॑म्। तया॑ स॒पत्ना॒न्परि॑ वृङ्ग्धि॒ ये मम॒ पर्ये॑नान्प्रा॒णः प॒शवो॒ जीव॑नं वृणक्तु ॥

Mantra Audio
Pad Path

सा । ते । काम । दुहिता । धेनु: । उच्यते । याम् । आहु: । वाचम् । कवय: । विऽराजम् । तया । सऽपत्नान् । परि । वृङ्ग्धि । ये । मम । परि । एनान् । प्राण: । पशव: । जीवनम् । वृणक्तु ॥२.५॥

Atharvaveda » Kand:9» Sukta:2» Paryayah:0» Mantra:5


PANDIT KSHEMKARANDAS TRIVEDI

ऐश्वर्य की प्राप्ति का उपदेश।

Word-Meaning: - (काम) हे कमनीय परमात्मन् (सा) वह [हमारी कामनायें] (दुहिता) पूरण करनेवाली (ते) तेरी (धेनुः) वाणी (उच्यते) कही जाती है, (वाम्) जिस (वाचम्) वाणी को (कवयः) बुद्धिमान् लोग (विराजम्) विविध ऐश्वर्यवाली (आहुः) कहते हैं। (तया) उस [वाणी] से (सपत्नान्) उन वैरियों को (परि वृङ्ग्धि) हटा दे, (ये) जो (मम) मेरे [शत्रु हैं,] (एनान्) उन [शत्रुओं] को (प्राणः) प्राण, (पशवः) सब जीव और (जीवनम्) जीवनवृत्ति (परि वृणक्तु) त्याग देवे ॥५॥
Connotation: - जो मनुष्य सर्वश्रेष्ठ वेदवाणी का आश्रय लेते हैं, वे अपने शत्रुओं को निर्बल करने में समर्थ होते हैं ॥५॥
Footnote: ५−(सा) प्रसिद्धा (ते) तव (काम) कमनीय (दुहिता) अ० ३।१०।१३। कामानां प्रपूरयित्री (धेनुः) अ० ३।१०।१। तर्पयित्री वाक्-निघ० १।११। (उच्यते) (याम्) (आहुः) कथयन्ति (वाचम्) वेदवाणीम् (कवयः) मेधाविनः (विराजम्) अ० ८।९।१। विवधेश्वरीम् (तया) वाचा (सपत्नान्) शत्रून् (परिवृङ्ग्धि) सर्वतो वर्जय (ये) शत्रवः (मम) (परि) (एनान्) सपत्नान् (प्राणः) आत्मोत्कर्षः (पशवः) प्राणिनः (जीवनम्) जीवनसाधनम् (वृणक्तु) अ० १।३०।३। वर्जयतु ॥