Go To Mantra
Viewed 70 times

दुः॒ष्वप्न्यं॑ काम दुरि॒तं च॑ कमाप्र॒जस्ता॑मस्व॒गता॒मव॑र्तिम्। उ॒ग्र ईशा॑नः॒ प्रति॑ मुञ्च॒ तस्मि॒न्यो अ॒स्मभ्य॑मंहूर॒णा चिकि॑त्सात् ॥

Mantra Audio
Pad Path

दु:ऽस्वप्न्यम् । काम । दु:ऽइतम् । च । काम । अप्रजस्ताम् । अस्वगताम् । अवर्तिम् । उग्र: । ईशान: । प्रति । मुञ्च । तस्मिन् । य: । अस्मभ्यम् । अंहूरणा । चिकित्सात् ॥२.३॥

Atharvaveda » Kand:9» Sukta:2» Paryayah:0» Mantra:3


PANDIT KSHEMKARANDAS TRIVEDI

ऐश्वर्य की प्राप्ति का उपदेश।

Word-Meaning: - (काम) हे कामनायोग्य [परमेश्वर !] (दुःष्वप्न्यम्) दुष्ट स्वप्न को, (च) और (काम) हे कामनायोग्य [परमात्मन् !] (दुरितम्) विघ्न, (अस्वगताम्) निर्धनता से प्राप्त (अप्रजस्ताम्) प्रजा के अभाव और (अवर्तिम्) निर्जीविका को, (उग्रः) प्रबल और (ईशानः) ईश्वर होकर तू (तस्मिन्) उस पुरुष पर (प्रति मुञ्च) छोड़ दे, (यः) जो (अस्मभ्यम्) हमारे लिये (अंहूरणा) पाप कर्मों को (चिकित्सात्) चाहे ॥३॥
Connotation: - जो मनुष्य धर्मात्माओं को दुःख देते हैं, वे ईश्वरनियम से बुद्धिहानि, विघ्न आदि कष्ट भोगते हैं ॥३॥
Footnote: ३−(दुःष्वप्न्यम्) दुष्टस्वप्नम्। कुविचारम् (काम) हे कमनीय परमात्मन् (दुरितम्) दुर्गतिम्। विघ्नम् (च) (काम) (अप्रजस्ताम्) नित्यमसिच् प्रजामेधयोः। पा० ५।४।१२२। अप्रजा-असिच्। प्रजाराहित्यम् (अस्वगताम्) अस्वेन निर्धनेन प्राप्ताम् (अवर्तिम्) अ० ४।३४।३। निर्जीविकाम् (उग्रः) प्रबलः (ईशानः) ईश्वरः (प्रति मुञ्च) सर्वतो मोचय (तस्मिन्) शत्रौ (यः) शत्रुः (अस्मभ्यम्) धर्मात्मभ्यः (अंहूरणा) अ० ६।९९।१। पापयुक्तानि कर्माणि (चिकित्सात्) कित इच्छायाम्-लेट्, सन् छान्दसः। केतयतु। इच्छतु ॥