Go To Mantra

यास्ते॑ शि॒वास्त॒न्वः काम भ॒द्रा याभिः॑ स॒त्यं भव॑ति॒ यद्वृ॑णी॒षे। ताभि॒ष्ट्वम॒स्माँ अ॑भि॒संवि॑शस्वा॒न्यत्र॑ पा॒पीरप॑ वेशया॒ धियः॑ ॥

Mantra Audio
Pad Path

या: । ते । शिवा: । तन्व: । काम । भद्रा: । याभि: । सत्यम् । भवति । यत् । वृणीषे । ताभि: । त्वम् । अस्मान् । अभिऽसंविशस्व । अन्यत्र । पापी: । अप । वेशय । धिय: । ॥२.२५॥

Atharvaveda » Kand:9» Sukta:2» Paryayah:0» Mantra:25


Reads 42 times

PANDIT KSHEMKARANDAS TRIVEDI

ऐश्वर्य की प्राप्ति का उपदेश।

Word-Meaning: - (काम) हे कामनायोग्य [परमेश्वर !] (ते) तेरी (याः) जो (शिवाः) मङ्गलवर्ती और (भद्राः) कल्याणी (तन्वः) उपकारशक्तियाँ हैं, (याभिः) जिनसे (सत्यम्) वह सत्य (भवति) होता है (यत्) जो कुछ (वृणीषे) तू चाहता है। (ताभिः) उन [उपकारशक्तियों] से (त्वम्) तू (अस्मान्) हम लोगों में (अभिसंविशस्व) प्रवेश करता रहे, (अन्यत्र) दूसरों [पापियों] में (पापीः धियः) पापबुद्धियों को (अप वेशय) प्रवेश कर दे ॥२५॥
Connotation: - परम उपकारी परमेश्वर अपने न्यायसामर्थ्य से धर्म्मात्माओं को पुरुषार्थ देता और दुष्टों को उनकी कुबुद्धि के कारण दण्ड देता है ॥२५॥ इति प्रथमोऽनुवाकः ॥
Footnote: २५−(याः) (ते) तव (शिवाः) मङ्गलवत्यः (तन्वः) भृमृशीङ्०। उ० १।७। तनु श्रद्धोपकरणयोः, विस्तारे च-उ प्रत्ययः, स्त्रियाम्-ऊङ्। उपकारशक्तयः (काम) हे कमनीयपरमेश्वर (भद्राः) कल्याण्यः (याभिः) उपकारशक्तिभिः (सत्यम्) यथार्थम् (भवति) (यत्) यत्किञ्चित् (वृणीषे) इच्छसि (ताभिः) तनूभिः (त्वम्) (अस्मान्) धार्मिकान् (अभिसंविशस्व) सर्वतः प्रविश (अन्यत्र) धर्मात्मभिर्भिन्नेषु (पापीः) नरकहेतुकाः (अपवेशय) प्रवेशय (धियः) बुद्धीः ॥