अ॒यं स शि॑ङ्क्ते॒ येन॒ गौर॒भीवृ॑ता॒ मिमा॑ति मा॒युं ध्व॒सना॒वधि॑ श्रि॒ता। सा चि॒त्तिभि॒र्नि हि च॒कार॒ मर्त्या॑न्वि॒द्युद्भव॑न्ती॒ प्रति॑ व॒व्रिमौ॑हत ॥
अयम् । स: । शिङ्क्ते । येन । गौ: । अभिऽवृता । मिमाति । मायुम् । ध्वसनौ । अधि । श्रिता । सा । चित्तिऽभि: । नि । हि । चकार । मर्त्यान् । विऽद्युत् । भवन्ती । प्रति । वव्रिम् । औहत ॥१५.७॥
PANDIT KSHEMKARANDAS TRIVEDI
जीवात्मा और परमात्मा के लक्षणों का उपदेश।