Go To Mantra

यद्गा॑य॒त्रे अधि॑ गाय॒त्रमाहि॑तं॒ त्रैष्टु॑भं वा॒ त्रैष्टु॑भान्नि॒रत॑क्षत। यद्वा॒ जग॒ज्जग॒त्याहि॑तं प॒दं य इत्तद्वि॒दुस्ते अ॑मृत॒त्वमा॑नशुः ॥

Mantra Audio
Pad Path

यत् । गायत्रे । अधि । गायत्रम् । आऽहितम् । त्रैस्तुभम् । वा । त्रैस्तुभात् । नि:ऽअतक्षत । यत् । वा । जगत् । जगति । आऽहितम् । पदम् । ये । इत् । तत् । विदु: । ते । अमृतऽत्वम् । आनशु: ॥१५.१॥

Atharvaveda » Kand:9» Sukta:10» Paryayah:0» Mantra:1


Reads times

PANDIT KSHEMKARANDAS TRIVEDI

जीवात्मा और परमात्मा के लक्षणों का उपदेश।

Word-Meaning: - (यत्) क्योंकि (गायत्रम्) स्तुति करनेवालों का रक्षक [ब्रह्म] (गायत्रे) स्तुति योग्य गुण में (अधि) ऐश्वर्य के साथ (आहितम्) स्थापित है, (वा) और (त्रैष्टुभम्) तीन [सत्त्व, रज और तम] के बन्धनवाले [जगत्] को (त्रैष्टुभात्) तीन [ऋषियों ने] पृथक् किया है। (वा) और (यत्) क्योंकि (जगत्) जानने योग्य (पदम्) प्रापणीय [मोक्षपद] (जगति) संसार के भीतर (आहितम्) स्थापित है, (ये इत्) जो ही [पुरुष] (तत्) उस [ब्रह्म] को (विदुः) जानते हैं, (ते) उन्होंने (अमृतत्वम्) अमरपन (आनशुः) पाया है ॥१॥
Connotation: - संसार के भीतर परमात्मा अपने गुणों से सर्वव्यापक है, जो योगी जन उसे साक्षात् करते हैं, वे मोक्ष के भागी होते हैं ॥१॥ मन्त्र १-८ कुछ भेद से ऋग्वेद में हैं-म० १।१६४।२३−३० ॥
Footnote: १−(यत्) यस्मात् कारणात् (गायत्रे) अमिनक्षियजि० उ० ३।१०५। गै गाने-अत्रन्, स च णित्। आतो युक् चिण्कृतोः। पा० ७।३।३३। इति-युक्। गायत्रं गायतेः स्तुतिकर्मणः, निरु० १।८। स्तुत्ये गुणे (अधि) ऐश्वर्ये (गायत्रम्) गै गाने-शतृ+त्रैङ् पालने-क, तलोपः। गायतां रक्षकं ब्रह्म (आहितम्) धृतम् (त्रैष्टुभम्) त्रि+ष्टुभ निरोधे−क्विप् सम्पदादिः, ततोऽण्। त्रयाणां सत्त्वरजस्तमसां स्तोभनं बन्धनं यस्मिन् तज् जगत् (वा) समुच्चये (त्रैष्टुभात्) स्तोभतिरर्चतिकर्मा-निघ० ३।१४। त्रि+ष्टुभ पूजायाम्−क्विप्, ततः प्रज्ञाद्यण्। त्रिभिः कर्मोपासनाज्ञानैः पूजितात् परब्रह्मणः (निरतक्षत) तक्षतिः करोतिकर्मा-निरु० ४।१९ प्रथमपुरुषस्य मध्यमः। निरतक्षन्। पृथक् कृतवन्तः (यत्) यस्मात् (वा) समुच्चये (जगत्) गन्तव्यं ज्ञातव्यम् (जगति) संसारे (आहितम्) (पदम्) प्रापणीयं मोक्षपदम् (ये) विद्वांसः (इत्) एव (तत्) ब्रह्म (विदुः) जानन्ति (ते) (अमृतत्वम्) अमरत्वं मोक्षसुखम् (आनशुः) प्राप्तवन्तः ॥