Go To Mantra
Viewed 78 times

मधोः॒ कशा॑मजनयन्त दे॒वास्तस्या॒ गर्भो॑ अभवद्वि॒श्वरू॑पः। तं जा॒तं तरु॑णं पिपर्ति मा॒ता स जा॒तो विश्वा॒ भुव॑ना॒ वि च॑ष्टे ॥

Mantra Audio
Pad Path

मधो: । कशाम् । अजनयन्त । देवा: । तस्या: । गर्भ: । अभवत् । विश्वऽरूप: । तम् । जातम् । तरुणम् । पिपर्ति । माता । स: । जात: । व‍िश्वा । भुवना । वि । चष्टे ॥१.५॥

Atharvaveda » Kand:9» Sukta:1» Paryayah:0» Mantra:5


PANDIT KSHEMKARANDAS TRIVEDI

ब्रह्म की प्राप्ति का उपदेश।

Word-Meaning: - (देवाः) पुरुषार्थियों ने (मधोः) ज्ञान की (कशाम्) वाणी को (अजनयन्त) प्रकट किया है,(तस्याः) उस [वाणी] का (गर्भः) गर्भ [आधार] (विश्वरूपः) सब रूपों का करनेवाला [परमेश्वर] (अभवत्) हुआ है। (माता) बनानेवाली [वेदवाणी] (तम्) उस (जातम्) प्रसिद्ध (तरुणम्) तारनेवाले [बलिष्ठ परमेश्वर] में (पिपर्ति) भरपूर है, (सः) वह (जातः) प्रसिद्ध [परमेश्वर] (विश्वा भुवना) सब भुवनों को (वि चष्टे) देखता रहता है ॥५॥
Connotation: - तत्त्वज्ञानी पुरुषार्थी लोग जानते हैं कि वेदवाणी परमेश्वर में और वेदवाणी में परमेश्वर है ॥५॥
Footnote: ५−(मधोः) म० १। मधुनः। ज्ञानस्य (कशाम् कश गतिशासनयोः-शब्दे च-पचाद्यच्, टाप्। कशा=वाक्-निघ० १।१—१। अश्वाजनीं कशेत्याहुः, कशा प्रकाशयति भयमश्वाय, कृष्यतेर्वाणूभावाद्वाक्, पुनः प्रकाशयत्यर्थान् खशया क्रोशतेर्वा-निरु० ९।१९। वाणीम् (अजनयन्त) प्रकटीकृतवन्तः (देवाः) गतिमन्तः। विद्वांसः (तस्याः) मधुकशायाः (गर्भः) अ० ३।१०।१२। आधारः (तम्) (जातम्) प्रसिद्धम् (तरुणम्) अ० ३।१२।७। तारकम्। बलिष्ठं परमेश्वरम् (पिपर्ति) पूरयति (माता) निर्मात्री मधुकशा (सः) (जातः) प्रादुर्भूतः परमेश्वरः (विश्वा) सर्वाणि (भुवना) लोकान् (वि) विविधम् (चष्टे) पश्यति ॥