Go To Mantra

पश्य॑न्त्यस्याश्चरि॒तं पृ॑थि॒व्यां पृथ॒ङ्नरो॑ बहु॒धा मीमां॑समानाः। अ॒ग्नेर्वाता॑न्मधुक॒शा हि ज॒ज्ञे म॒रुता॑मु॒ग्रा न॒प्तिः ॥

Mantra Audio
Pad Path

पश्यन्ति । अस्या: । चरितम् । पृथिव्याम् । पृथक् । नर: । बहुऽधा । मीमांसमाना: । अग्ने: । वातात् । मधुऽकशा। हि । जज्ञे । मरुताम् । उग्रा । नप्ति: ॥१.३॥

Atharvaveda » Kand:9» Sukta:1» Paryayah:0» Mantra:3


Reads 46 times

PANDIT KSHEMKARANDAS TRIVEDI

ब्रह्म की प्राप्ति का उपदेश।

Word-Meaning: - (बहुधा) अनेक प्रकार (मीमांसमानाः) मीमांसा [विचारपूर्वक तत्त्वनिर्णय] करते हुये (नरः) नेता लोग (अस्याः) इस [मधुकशा] के (चरितम्) चरित्र को (पृथिव्याम्) पृथिवी पर (पृथक्) अलग-अलग (पश्यन्ति) देखते हैं। (मरुताम्) शूर पुरुषों की (उग्रा) प्रबल, (नप्तिः) न गिरनेवाली शक्ति, (मधुकशा) मधुकशा [ब्रह्मविद्या] (हि) ही (अग्नेः) अग्नि से और (वातात्) वायु से (जज्ञे) प्रकट हुई है ॥३॥
Connotation: - विद्वान् लोग ईश्वरज्ञान को जगत् के सब पदार्थों में साक्षात् करके बल बढ़ाते हैं ॥३॥
Footnote: ३−(पश्यन्ति) अवलोकयन्ति (अस्याः) मधुकशायाः (चरितम्) चेष्टितम् (पृथिव्याम्) भूलोके (पृथक्) भिन्नभिन्नप्रकारेण (नरः) नयतेर्डिच्च। उ० २।१००। णीञ् प्रापणे-ऋ। नेतारः। नराः (बहुधा) विविधम् (मीमांसमानाः) मान जिज्ञासायाम् स्वार्थे सन्-शानच्। विचारपूर्वकतत्त्वनिर्णयं कुर्वन्तः (मरुताम्) अ० १।२०।१। शूराणाम् (अस्याः) मधुकशायाः (उग्रा) प्रबला (नप्तिः) नञ्+पत्लृ अधःपतने-क्तिन्, टेर्लोपः। नपप्तिः। अपतनशक्तिः। स्थितिः ॥