Go To Mantra
Viewed 82 times

यानि॒ त्रीणि॑ बृ॒हन्ति॒ येषां॑ चतु॒र्थं वि॑यु॒नक्ति॒ वाच॑म्। ब्र॒ह्मैन॑द्विद्या॒त्तप॑सा विप॒श्चिद्यस्मि॒न्नेकं॑ यु॒ज्यते॒ यस्मि॒न्नेक॑म् ॥

Mantra Audio
Pad Path

यानि । त्रीणि । बृहन्ति । येषाम् । चतुर्थम् । विऽयुनक्ति । वाचम् । ब्रह्मा । एनत् । विद्यात् । तपसा । विप:ऽचित् । यस्मिन् । एकम् । युज्यते । यस्मिन् । एकम् ॥९.३॥

Atharvaveda » Kand:8» Sukta:9» Paryayah:0» Mantra:3


PANDIT KSHEMKARANDAS TRIVEDI

ब्रह्म विद्या का उपदेश।

Word-Meaning: - (यानि) जो (त्रीणि) तीन [सत्त्व, रज और तम] (बृहन्ति) बड़े-बड़े हैं, (येषाम्) जिन में (चतुर्थम्) चौथा [ब्रह्म] (वाचम्) वाणी (वियुनक्ति) विलगाता है, (विपश्चित्) बुद्धिमान् (ब्रह्मा) ब्रह्मा [वेदवेत्ता ब्राह्मण] (एनत्) इस [ब्रह्म] को (तपसा) तप से (विद्यात्) जाने, (यस्मिन्) जिस [तप] में (एकम्) एक [ब्रह्म] (यस्मिन्) जिस [तप] में (एकम्) एक [ब्रह्म] (युज्यते) ध्यान किया जाता है ॥३॥
Connotation: - जिस परमात्मा ने तीनों गुणों द्वारा सृष्टि रची है और जिसने वेद द्वारा सब उपदेश किया है, उस परमात्मा का ज्ञान अनन्यध्यायी योगी को ही तप द्वारा होता है ॥३॥
Footnote: ३−(यानि) (त्रीणि) सत्त्वरजस्तमांसि (बृहन्ति) प्रवृद्धानि (येषाम्) त्रयाणां मध्ये (चतुर्थम्) तुरीयं शुद्धं ब्रह्म (वियुनक्ति) वियोजयति। प्रकटयति (वाचम्) वाणीम् (ब्रह्मा) अ० २।७। वेदवेत्ता विप्रः। योगिजनः (एनत्) निर्दिष्टं ब्रह्म (विद्यात्) जानीयात् (तपसा) ब्रह्मचर्यादिव्रतेन (विपश्चित्) अ० ६।५२।३। मेधावी-निघ–० ३।१५। (यस्मिन्) तपसि (एकम्) ब्रह्म (युज्यते) समाधीयते (यस्मिन्) (एकम्) द्विर्वचनं वीप्सायाम् ॥