Go To Mantra
Viewed 87 times

यद्वः॒ सहः॑ सहमाना वी॒र्यं यच्च॑ वो॒ बल॑म्। तेने॒मम॒स्माद्यक्ष्मा॒त्पुरु॑षं मुञ्चतौषधी॒रथो॑ कृणोमि भेष॒जम् ॥

Mantra Audio
Pad Path

यत् । व: । सह: । सहमाना: । वीर्यम् । यत् । च । व: । बलम् । तेन । इमम् । अस्मात् । यक्ष्मात् । पुरुषम् । मुञ्चत । ओषधी: । अथो इति । कृणोमि । भेषजम् ॥७.५॥

Atharvaveda » Kand:8» Sukta:7» Paryayah:0» Mantra:5


PANDIT KSHEMKARANDAS TRIVEDI

रोग के विनाश का उपदेश।

Word-Meaning: - (सहमानाः) हे बलवालियों ! (यत्) जो (वः) तुम्हारा (सहः) पराक्रम और (वीर्यम्) वीरत्व (च) और (यत्) जो (वः) तुम्हारा (बलम्) बल है। (ओषधीः) हे तापनाशक ओषधियो ! (तेन) उस से (इमम्) इस (पुरुषम्) पुरुष को (अस्मात्) इस (यक्ष्मात्) राजरोग से (मुञ्चत) छुड़ाओ, (अथो) अब, मैं (भेषजम्) औषध (कृणोमि) करता हूँ ॥५॥
Connotation: - मनुष्य पदार्थों के गुणों का परीक्षण करके विघ्नों को हटावें ॥५॥
Footnote: ५−(यत्) (वः) युष्माकम् (सहः) पराक्रमः (सहमानाः) हे अभिभवशीलाः (वीर्यम्) वीरत्वम् (यत्) (च) (वः) (बलम्) (तेन) (इमम्) समीपस्थम् (अस्मात्) (यक्ष्मात्) राजरोगात् (पुरुषम्) मनुष्यम् (मुञ्चत) मोचयत (ओषधीः) अ० १।२३।१। हे ओषधयः। तापनाशयित्र्यः (अथो) आरम्भे। इदानीम् (कृणोमि) करोमि (भेषजम्) औषधम् ॥