Go To Mantra

प्र॑स्तृण॒ती स्त॒म्बिनी॒रेक॑शुङ्गाः प्रतन्व॒तीरोष॑धी॒रा व॑दामि। अं॑शु॒मतीः॑ का॒ण्डिनी॒र्या विशा॑खा॒ ह्वया॑मि ते वी॒रुधो॑ वैश्वदे॒वीरु॒ग्राः पु॑रुष॒जीव॑नीः ॥

Mantra Audio
Pad Path

प्रऽस्तृणती: । स्तम्बिनी: । एकऽशुङ्गा: । प्रऽतन्वती: । ओषधी: । आ । वदामि । अंशुऽमती: । काण्डिनी: । या: । विऽशाखा: । ह्वयामि । ते । वीरुध: । वैश्वऽदेवी: । उग्रा: । पुरुषऽजीवनी: ॥७.४॥

Atharvaveda » Kand:8» Sukta:7» Paryayah:0» Mantra:4


Reads 115 times

PANDIT KSHEMKARANDAS TRIVEDI

रोग के विनाश का उपदेश।

Word-Meaning: - (प्रस्तृणतीः) बहुत ढकनेवाली [पत्तोंवाली], (स्तम्बिनी) बहुत गुच्छोंवाली, (एकशुङ्गाः) एक कौंपलवाली, (प्रतन्वतीः) बहुत फैली हुई (ओषधीः) ओषधियों को (आ वदामि) मैं भले प्रकार बुलाता हूँ। (अंशुमतीः) बहुत कौंपवाली, (काण्डिनीः) बड़े गुद्दोंवाली, (विशाखाः) बहुत टहनियोंवाली, (वैश्वदेवीः) सब दिव्य गुणवाली, (उग्राः) बलवाली (पुरुषजीवनीः) मनुष्यों का जीवन करनेवालियों को (ते) तेरे लिये (ह्वयामि) मैं बुलाता हूँ, (याः) जो (वीरुधः) विविध प्रकार उगनेवाली बेल-बूटी हैं ॥४॥
Connotation: - मनुष्य विविध प्रकार अन्न, वृक्ष और औषधों को भले प्रकार निरीक्षण करके उपयोग करें ॥४॥
Footnote: ४−(प्रस्तृणतीः) स्तॄञ् आच्छादने-शतृ। ङीप्। बह्वाच्छादयतीः। बहुपत्रवती (स्तम्बिनीः) स्थः स्तोऽम्बजवकौ। उ० ४।९६। तिष्ठतेः-अम्बच्, स्तादेशः, स्तम्ब-इनि। बहुगुच्छयुक्ताः (एकशुङ्गाः) शम शान्तौ-ग, तस्य नेत्त्वं निपातनादत उत्त्वं च-इति शब्दस्तोममहानिधिः। एकशूकाः। एक−तीक्ष्णाग्रयुक्ताः (प्रतन्वतीः) बहुविस्तारवतीः (ओषधीः) (आ) समन्तात् (वदामि) ह्वयामि (अंशुमतीः) कोमलपल्लवोपेताः (काण्डिनीः) स्कन्धवतीः (याः) (विशाखाः) विविधशाखावतीः (ह्वयामि) (ते) तुभ्यम् (वीरुधः) अ० १।३२।१। विरोहणशीला लतादयः (वैश्वदेवीः) सर्वदिव्यगुणयुक्ताः (उग्राः) प्रचण्डा बलवतीः (पुरुषजीवनीः) मनुष्याणां प्राणाधाराः ॥