याव॑तीना॒मोष॑धीनां॒ गावः॑ प्रा॒श्नन्त्य॒घ्न्या याव॑तीनामजा॒वयः॑। ताव॑ती॒स्तुभ्य॒मोष॑धीः॒ शर्म॒ यच्छ॒न्त्वाभृ॑ताः ॥
Pad Path
यावतीनाम् । ओषधीनाम् । गाव: । प्रऽअश्नन्ति । अघ्न्या: । यावतीनाम् । अजऽअवय: । तावती: । तुभ्यम् । ओषधी: । शर्म । यच्छन्तु । आऽभृता: ॥७.२५॥
Atharvaveda » Kand:8» Sukta:7» Paryayah:0» Mantra:25
Reads 44 times
PANDIT KSHEMKARANDAS TRIVEDI
रोग के विनाश का उपदेश।
Word-Meaning: - (यावतीनाम्) जितनी (ओषधीनाम्) ओषधियों का (अघ्न्याः) न मारने योग्य (गावः) गौवें और (यावतीनाम्) जितनी [ओषधियों] का (अजावयः) भेड़ बकरी (प्राश्नन्ति) चारा करती हैं, (तावतीः) उतनी सब (आभृताः) यथावत् पुष्ट की हुई (ओषधीः) ओषधियाँ (तुभ्यम्) तुझ को (शर्म) सुख (यच्छन्तु) देवें ॥२५॥
Connotation: - मन्त्र २३ के समान ॥२५॥
Footnote: २५−(यावतीनाम्) यत्परिमाणानाम् (गावः) धेनवः (प्राश्नन्ति) प्राशनं कुर्वन्ति (अघ्न्याः) अ० ३।३०।१। अहन्तव्याः (अजावयः) अजाश्च अवयश्च ते। छागमेषादयः (तावतीः) तत्परिमाणाः (शर्म) सुखम् (यच्छन्तु) ददतु (आभृताः) सम्यक् पोषिताः। अन्यद् गतम् ॥
