Viewed 87 times
अ॑प्र॒जास्त्वं॒ मार्त॑वत्स॒माद्रोद॑म॒घमा॑व॒यम्। वृ॒क्षादि॑व॒ स्रजं॑ कृ॒त्वाप्रि॑ये॒ प्रति॑ मुञ्च॒ तत् ॥
Pad Path
अप्रजा:ऽत्वम् । मार्तऽवत्सम् । आत् । रोदम् । अघम् । आऽवयम् । वृक्षात्ऽइव । स्रजम् । कृत्वा । अप्रिये । प्रति । मुञ्च । तत् ॥६.२६॥
Atharvaveda » Kand:8» Sukta:6» Paryayah:0» Mantra:26
PANDIT KSHEMKARANDAS TRIVEDI
गर्भ की रक्षा का उपदेश।
Word-Meaning: - (अप्रजास्त्वम्) बिना सन्तान होना, (मार्तवत्सम्) बच्चों का मर जाना (आत्) और (रोदम्) रोदन करना (अघम्) पाप और (आवयम्) सब ओर से दुःख के योग को। (तत्) उसे (अप्रिये) अप्रिय पर (प्रति मुञ्च) छोड़ दे (इव) जैसे (वृक्षात्) वृक्ष से (स्रजम्) फूलों की माला को (कृत्वा) बनाकर [छोड़ते हैं] ॥२६॥
Connotation: - मनुष्य प्रयत्न करें कि उनके सन्तान उत्पन्न होकर क्लेशों से बचकर दीर्घ आयु प्राप्त करें ॥२६॥ इति तृतीयोऽनुवाकः ॥
Footnote: २६−(अप्रजास्त्वम्) नित्यमसिच् प्रजामेधयोः। पा० ५।४।१२२। अप्रजा-असिच्, भावे त्व, छान्दसो दीर्घः। अप्रजस्त्वम्। सन्तानराहित्यम् (मार्तवत्सम्) भावे अण्। मृतबालत्वम् (आत्) अपि च (रोदम्) रुदिर् अश्रुविमोचने-घञ्। रोदनम् (अघम्) पापम् (आवयम्) आ+व+यम्। वा गतिगन्धनयोः-ड, युजिर् योगे-ड। आ समन्ताद् वस्य गन्धनस्य हिंसनस्य यं योगम् (वृक्षात्) द्रुमात् (इव) यथा (स्रजम्) अ० १।१४।१। पुष्पमालाम् (कृत्वा) निर्माय (अप्रिये) द्वेष्ये (प्रति मुञ्च) प्रत्यक्षं मोचय (तत्) पूर्वोक्तं कर्म ॥
