Go To Mantra
Viewed 84 times

याः कृ॒त्या आ॑ङ्गिर॒सीर्याः कृ॒त्या आ॑सु॒रीर्याः कृ॒त्याः स्व॒यंकृ॑ता॒ या उ॑ चा॒न्येभि॒राभृ॑ताः। उ॒भयी॒स्ताः परा॑ यन्तु परा॒वतो॑ नव॒तिं ना॒व्या अति॑ ॥

Mantra Audio
Pad Path

या: । कृत्या: । आङ्गिरसी: । या: । कृत्या: । आसुरी: । या:। कृत्या: । स्वयम्ऽकृता: । या: । ऊं इति । च । अन्येभि: । आऽभृता: । उभयी: । ता: । परा । यन्तु । पराऽवत: । नवतिम् । नाव्या: । अति ॥५.९॥

Atharvaveda » Kand:8» Sukta:5» Paryayah:0» Mantra:9


PANDIT KSHEMKARANDAS TRIVEDI

हिंसा के नाश का उपदेश।

Word-Meaning: - (याः) जो (कृत्याः) हिंसाएँ (आङ्गिरसीः) ऋषियों कर के कही गई हैं, (याः) जो (कृत्याः) हिंसाएँ (आसुरीः) असुरों करके की गई हैं, (याः) जो (कृत्याः) हिंसाएँ (स्वयंकृताः) अपने से की गई हैं, (च उ) और भी (याः) जो (अन्येभिः) दूसरे पुरुषों करके (आभृताः) पहुँचाई गई हैं, (उभयीः) सम्पूर्ण (ताः) वे (नवतिम्) नब्बे (नाव्याः) नाव से उतरने योग्य नदियों को (अति) पार करके (परावतः) बहुत दूर देशों को (परा यन्तु) चली जावें ॥९॥
Connotation: - जिन हिंसाओं का विधान ऋषियों ने किया है और जिनको मनुष्य अपने आप बुद्धि विकार से करते हैं, अथवा जिन हिंसाओं को दूसरे उपद्रवी करते हैं, उन सब को मनुष्य ज्ञान द्वारा सर्वथा अति दूर हटावें ॥९॥
Footnote: ९−(याः) (कृत्याः) हिंसाः। उपद्रवाः (अङ्गिरसीः) तेन प्रोक्तम्। पा० ४।३।१०१। अङ्गिरस्-अण्, ङीप्। आङ्गिरस्यः। अङ्गिरोभिर्ज्ञानवद्भिः प्रोक्ताः (याः) (कृत्याः) (आसुरीः) तेन निर्वृत्तम्। पा० ४।२।६८। असुर-अण्। आसुर्यः। असुरैरुपद्रविभिर्निर्मिताः (याः) (कृत्याः) (स्वयंकृताः) आत्मना कृताः स्वबुद्धिविकारेण (उ) अपि (च) (अन्येभिः) अन्यैः (आभृताः) आहृताः। प्रापिताः (उभयीः) अ० ७।१०९।२। उभ पूर्तौ-कयन्, ङीप्। उभय्यः। सम्पूर्णाः (ताः) कृत्याः (परा) दूरे (यन्तु) गच्छन्तु (परावतः) दूरदेशान् (नवतिम्) बह्वीरित्यर्थः (नाव्याः) नौवयोधर्मविष०। पा० ४।४।९१। नौ-यत्। नावा तार्याः नदीः (अति) अतीत्य ॥