Go To Mantra
Viewed 96 times

स्व॑स्ति॒दा वि॒शां पति॑र्वृत्र॒हा वि॑मृ॒धो व॒शी। इन्द्रो॑ बध्नातु ते म॒णिं जि॑गी॒वाँ अप॑राजितः। सो॑म॒पा अ॑भयङ्क॒रो वृषा॑। स त्वा॑ रक्षतु स॒र्वतो॒ दिवा॒ नक्तं॑ च वि॒श्वतः॑ ॥

Mantra Audio
Pad Path

स्वस्तिऽदा: । विशाम् । पति: । वृत्रऽहा । विऽमृध: । वशी । इन्द्र: । बध्नातु । ते । मणिम् । जिगीवान् । अपराऽजित: । सोमऽपा: । अभयम्ऽकर: । वृषा । स: । त्वा । रक्षतु । सर्वत: । दिवा । नक्तम् । च । विश्वत: ॥५.२२॥

Atharvaveda » Kand:8» Sukta:5» Paryayah:0» Mantra:22


PANDIT KSHEMKARANDAS TRIVEDI

हिंसा के नाश का उपदेश।

Word-Meaning: - (स्वस्तिदाः) मङ्गल का देनेहारा, (विशाम्) प्रजाओं का (पतिः) पालनेहारा, (वृत्रहा) अन्धकार मिटानेहारा, (विमृधः) शत्रुओं को (वशी) वश में करनेहारा, (जिगीवान्) विजयी, (अपराजितः) कभी न हराया गया, (सोमपाः) ऐश्वर्य की रक्षा करनेहारा, (अभयङ्करः) अभय करनेहारा, (वृषा) महाबली (इन्द्रः) बड़े ऐश्वर्यवाला जगदीश्वर (ते) तुझको [हे मनुष्य !] (मणिम्) मणि [श्रेष्ठ नियम] (बध्नातु) बाँधे। (सः) वह (सर्वतः) सब प्रकार (दिवा नक्तं च) दिन और रात (विश्वतः) सब ओर से (त्वा) तेरी (रक्षतु) रक्षा करे ॥२२॥
Connotation: - मनुष्य परमेश्वर की उपासना करके उत्तम नियमों का पालन कर सदा सुरक्षित रहें ॥२२॥ इस मन्त्र का प्रथम भाग और कुछ अन्यपद आ चुके हैं-अ० १।२१।१ ॥
Footnote: २२-अस्य मन्त्रस्य। बहवः पदार्थाः साधिताः-अ० १।२१।१। अत्र तेषां पर्य्यायवाचिनो दीयन्ते (स्वस्तिदाः) क्षेमप्रदः (विशां पतिः) प्रजानां पालकः (वृत्रहा) अन्धकारनाशकः (विमृधः) शत्रून् (वशी) वशयिता (इन्द्रः) परमेश्वरः (बध्नातु) धारयतु (ते) तुभ्यम् (मणिम्) म० १। श्रेष्ठनियमम् (जिगीवान्) अ० ४।२२।६। जयशीलः (अपराजितः) अनभिभूतः (सोमपाः) ऐश्वर्यरक्षकः (अभयङ्करः) अभयप्रदः (वृषा) महाबली (सः) इन्द्रः (त्वा) त्वाम् (रक्षतु) (सर्वतः) सर्वप्रकारेण (दिवा) दिने (नक्तम्) रात्रौ (च) (विश्वतः) सर्वासु दिक्षु ॥