Go To Mantra
Viewed 90 times

अ॒स्मिन्निन्द्रो॒ नि द॑धातु नृ॒म्णमि॒मं दे॑वासो अभि॒संवि॑शध्वम्। दी॑र्घायु॒त्वाय॑ श॒तशा॑रदा॒यायु॑ष्माञ्ज॒रद॑ष्टि॒र्यथास॑त् ॥

Mantra Audio
Pad Path

अस्मिन् । इन्द्र: । नि । दधातु । नृम्णम् । इमम् । देवास: । अभिऽसंविशध्वम् । दीर्घायुऽत्वाय । शतऽशारदाय । आयुष्मान् । जरत्ऽअष्टि: । यथा । असत् ॥५.२१॥

Atharvaveda » Kand:8» Sukta:5» Paryayah:0» Mantra:21


PANDIT KSHEMKARANDAS TRIVEDI

हिंसा के नाश का उपदेश।

Word-Meaning: - (इन्द्रः) बड़े ऐश्वर्यवाला जगदीश्वर (अस्मिन्) इस [पुरुष] में (नृम्णम्) बल वा धन (शतशारदाय) सौ शरद् ऋतुवाले (दीर्घायुत्वाय) दीर्घ आयु के लिये (नि दधातु) नियम से स्थापित करे, (देवासः) हे विद्वानो ! (इमम्) इस [ज्ञान-म० २–०] में (अभिसंविशध्वम्) सब ओर से मिलकर प्रवेश करो, (यथा) जिससे वह (आयुष्मान्) बड़े जीवनवाला और (जरदष्टिः) स्तुति के साथ प्रवृत्ति वा भोजनवाला (असत्) होवे ॥२१॥
Connotation: - विद्वान् लोग उपदेश करें जिससे सब मनुष्य ईश्वरमहिमा जानकर बल धन और यश बढ़ावें ॥२१॥
Footnote: २१−(अस्मिन्) मनुष्ये (इन्द्रः) परमैश्वर्यवान् जगदीश्वरः (नि) नियमेन (दधातु) स्थापयतु (नृम्णम्) अ० ४।२४।३। बलं धनं वा (इमम्) म–० २०। मेथिम्। बोधम् (अभिसंविशध्वम्) म० २० (दीर्घायुत्वाय) चिरजीवनाय (शतशारदाय) अ० १।३५।१। शतसंवत्सरयुक्ताय (आयुष्मान्। जरदष्टिः। यथा) म० १९ (असत्) भवेत् ॥