Viewed 86 times
उत्त॒मो अ॒स्योष॑धीनामन॒ड्वाञ्जग॑तामिव व्या॒घ्रः श्वप॑दामिव। यमैच्छा॒मावि॑दाम॒ तं प्र॑ति॒स्पाश॑न॒मन्ति॑तम् ॥
Pad Path
उत्ऽतम: । असि । ओषधीनाम् । अनड्वान् । जगताम्ऽइव । व्याघ्र: । श्वपदाम्ऽइव । यम् । ऐच्छाम । अविदाम । तम् । प्रतिऽस्पाशनम् । अन्तितम् । ॥५..११॥
Atharvaveda » Kand:8» Sukta:5» Paryayah:0» Mantra:11
PANDIT KSHEMKARANDAS TRIVEDI
हिंसा के नाश का उपदेश।
Word-Meaning: - [हे मनुष्य !] तू (ओषधीनाम्) तापनाशकों में (उत्तमः) उत्तम (असि) है, (इव) जैसे (जगताम्) गतिशीलों [गौ आदि पशुओं] में (अनड्वान्) [रथ ले चलनेवाला] बैल और (इव) जैसे (श्वपदाम्) हिंसक पशुओं में (व्याघ्रः) बाघ [है]। (यम्) जिसको (ऐच्छाम) हमने चाहा था, (तम्) उस (प्रतिस्पाशनम्) प्रत्येक को छूनेवाले, (अन्तितम्) प्रबन्ध करनेवाले [मणिरूप श्रेष्ठ नियम को] (अविदाम) हमने पाया है ॥११॥
Connotation: - उत्साही आत्मावलम्बी पुरुष भय छोड़ कर परमात्मा के नियमों को अङ्गीकार करके सुखी होते हैं ॥११॥ इस मन्त्र का पूर्व भाग (उत्तमो... श्वपदामिव) अ० १९।३९।४। में है ॥
Footnote: ११−(उत्तमः) (असि) (ओषधीनाम्) अ० १।२३।१। तापनाशकानां मध्ये (अनड्वान्) अ० ४।११।१। शकटवाहको बलीवर्दः (जगताम्) अ० १।३१।४। गतिशीलानां गवादीनां मध्ये (इव) यथा (व्याघ्रः) अ० ४।३।१। हिंस्रपशुविशेषः (श्वपदाम्) शुन इव पादो येषाम्। हिंस्रपशूनां मध्ये (इव) (यम्) (ऐच्छाम) वयमिष्टवन्तः (अविदाम) विन्दतेर्लुङि च्लेरङ्। वयं लब्धवन्तः (तम्) (प्रतिस्पाशनम्) स्पश बाधनस्पर्शनयोः, णिच्-ल्यु। प्रत्येकस्पर्शकम् (अन्तितम्) अ० ६।४।२। प्रबन्धकम् ॥
