Go To Mantra
Viewed 95 times

ए॒त उ॒ त्ये प॑तयन्ति॒ श्वया॑तव॒ इन्द्रं॑ दिप्सन्ति दि॒प्सवोऽदा॑भ्यम्। शिशी॑ते श॒क्रः पिशु॑नेभ्यो व॒धं नू॒नं सृ॑जद॒शनिं॑ यातु॒मद्भ्यः॑ ॥

Mantra Audio
Pad Path

एते । ऊं इति । त्ये । पतयन्ति । श्वऽयातव: । इन्द्रम् । दिप्सन्ति । दिप्सव: । अदाभ्यम् । शिशीते । शक्र: । पिशुनेभ्य: । वधम् । नूनम् । सृजत् । अशनिम् । यातुमत्ऽभ्य: ॥४.२०॥

Atharvaveda » Kand:8» Sukta:4» Paryayah:0» Mantra:20


PANDIT KSHEMKARANDAS TRIVEDI

राजा और मन्त्री के धर्म का उपदेश।

Word-Meaning: - (एते) यह [देशीय] (उ) और (त्ये) वे [विदेशीय] (श्वयातवः) कुत्ते समान पीड़ा देनेवाले (पतयन्ति) उड़ते हैं और (दिप्सवः) दुःख देनेवाले लोग (अदाभ्यम्) न दबनेवाले (इन्द्रम्) प्रतापी राजा को (दिप्सन्ति) हानि करना चाहते हैं। (शक्रः) शक्तिमान् राजा (पिशुनेभ्यः) छली लोगों के लिये (वधम्) मारू हथियार (शिशीते) तेज करता है, वह (नूनम्) निश्चय करके (अशनिम्) वज्र को (यातुमद्भ्यः) पीड़ा देनेवालों पर (सृजत्) छोड़ देवे ॥२०॥
Connotation: - राजा भीतरी और बाहिरी हानिकारक शत्रुओं को शस्त्र आदिकों से नष्ट करे ॥२०॥
Footnote: २०−(एते) स्वदेशवर्तिनः (उ) च (त्ये) ते विदेशिनः (पतयन्ति) उड्डीयन्ते (श्वयातवः) कुक्कुरसमानयातनावन्तः (इन्द्रम्) प्रतापिनं राजानम् (दिप्सन्ति) अ० ४।३६।१। जिघांसन्ति (दिप्सवः) दभि हिंसायाम्-सन्-उ प्रत्ययः। जिघांसवः (अदाभ्यम्) अ० ३।२१।४। अजेयम् (शिशीते) अ० ५।१४।९। श्यति। निशितं करोति (शक्रः) शक्तिमान् राजा (पिशुनेभ्यः) क्षुधिपिशिमिथिभ्यः कित्। उ० ३।५५। पिश अवयवे-उनन्। खलेभ्यः। सूचकेभ्यः (वधम्) मारकमायुधम् (नूनम्) निश्चयेन (सृजत्) उत् क्षिपेत् (अशनिम्) वज्रम् (यातुमद्भ्यः) हिंसावद्भ्यः ॥