Go To Mantra
Viewed 89 times

इन्द्रा॑सोमा॒ तप॑तं॒ रक्ष॑ उ॒ब्जतं॒ न्यर्पयतं वृषणा तमो॒वृधः॑। परा॑ शृणीतम॒चितो॒ न्योषतं ह॒तं नु॒देथां॒ नि शि॑शीतम॒त्त्रिणः॑ ॥

Mantra Audio
Pad Path

इन्द्रासोमा । तपतम् । रक्ष: । उब्जतम् । नि । अर्पयतम् । वृषणा । तम:ऽवृध: । परा । शृणीतम् । अचित: । नि । ओषतम् । हतम् । नुदेथाम् । नि । शिशीतम् । अत्त्रिण: ॥४.१॥

Atharvaveda » Kand:8» Sukta:4» Paryayah:0» Mantra:1


PANDIT KSHEMKARANDAS TRIVEDI

राजा और मन्त्री के धर्म का उपदेश।

Word-Meaning: - (इन्द्रासोमा) हे सूर्य और चन्द्र [समान राजा और मन्त्री !] तुम दोनों (रक्षः) राक्षसों को (तपतम्) तपाओ, (उब्जतम्) दबाओ, (वृषणा) हे बलिष्ठ ! तुम दोनों (तमोवृधः) अन्धकार बढ़ानेवालों को (नि अर्पयतम्) नीचे डालो। (अचितः) अचेतों [मूर्खों] को (परा शृणीतम्) कुचल डालो, (नि ओषतम्) जला दो, (अत्त्रिणः) खाऊ जनों को (हतम्) मारो, (नुदेथाम्) ढकेलो, (नि शिशीतम्) छील डालो [दुर्बल कर दो] ॥१॥
Connotation: - राजा और मन्त्री उपद्रवियों को कठिन दण्ड देते रहें ॥१॥ यह सूक्त म० १-२५। कुछ भेद से ऋग्वेद में है। ७।१०४।१-२५ ॥
Footnote: १−(इन्द्रासोमा) देवताद्वन्द्वे च। पा० ६।३।२६। इत्यानङ्। इन्द्रः सूर्यश्च सोमश्चन्द्रश्च तौ। तादृशौ राजमन्त्रिणौ (तपतम्) तापयतम् (रक्षः) जातावेकवचनम्। रक्षांसि (उब्जतम्) उब्ज आर्जवे हिंसने च। हिंस्तम् (नि अर्पयतम्) ऋ गतौ, णिचि, पुगागमः। नीचैः प्रापयतम् (वृषणा) वृषणौ। बलिष्ठौ (तमोवृधः) अन्धकारवर्धकान् (परा शृणीतम्) विमर्दयतम् (अचितः) अचित्तान्। मूढान् (नि ओषतम्) नितरां दहतम् (हतम्) मारयतम् (नुदेथाम्) प्रेरयेथाम् (नि शिशीतम्) शो तनूकरणे। नितरां तनूकुरुतम्। निर्बलान् कुरुतम् (अत्त्रिणः) अ० १।७।३। अदनशीलान्। भक्षकान् ॥