Go To Mantra

सं॑वत्स॒रीणं॒ पय॑ उ॒स्रिया॑या॒स्तस्य॒ माशी॑द्यातु॒धानो॑ नृचक्षः। पी॒यूष॑मग्ने यत॒मस्तितृ॑प्सा॒त्तं प्र॒त्यञ्च॑म॒र्चिषा॑ विध्य॒ मर्म॑णि ॥

Mantra Audio
Pad Path

सम्ऽवत्सरीणम् । पय: । उस्रियाया: । तस्य । मा । आशीत् । यातुऽधान: । नृऽचक्ष: । पीयूषम् । अग्ने । यतम: । तितृप्सात् । तम् । प्रत्यञ्चम् । अर्चिषा । विध्य । मर्मणि ॥३.१७॥

Atharvaveda » Kand:8» Sukta:3» Paryayah:0» Mantra:17


Reads 56 times

PANDIT KSHEMKARANDAS TRIVEDI

राजा के धर्म का उपदेश।

Word-Meaning: - (उस्रियायाः) गौ का [हमारे] (संवत्सरीणम्) निवासस्थान में उपस्थित [जो] (पयः) दूध है, (नृचक्षः) हे मनुष्यों पर दृष्टि रखनेवाले राजन् ! (यातुधानः) दुःखदायी जन (तस्य) उसका (मा आशीत्) न भोजन करे। (अग्ने) हे अग्नि [समान तेजस्वी राजन् !] (यतमः) जो कोई [उनमें से हमारे] (अमृतम्) अमृत [अन्न दुग्ध आदि से] (तितृप्सात्) पेट भरना चाहे, (तम् प्रत्यञ्चम्) उस प्रतिकूलवर्ती को (अर्चिषा) अपने तेज से (मर्मणि) मर्मस्थान में (विध्य) छेद ले ॥१७॥
Connotation: - राजा सावधानी रक्खे कि कोई दुष्ट जन प्रजा के पदार्थों को न हड़प जावे ॥१७॥
Footnote: १७−(संवत्सरीणम्) अ० ७।७७।३। सम्+वस निवासे-सरन्, ख-प्रत्ययो भवे। सम्यग् निवासे गृहे भवम् (पयः) दुग्धम् (उस्रियायाः) अ० ४।२६।५। गोः (तस्य) पयसः (मा आशीत्) अश भोजने-लुङ्, अङ्भावश्छान्दसः। मा आशीत्-यथा ऋग्वेदपदपाठे। न भोजनं कुर्यात् (यातुधानः) (नृचक्षः) हे नॄणां द्रष्टः (पीयूषम्) पीयेरूषन्। उ० ४।७६। पीय प्रीणने-ऊषन्। अमृतम्। दुग्धम् (अग्ने) (यतमः) तेषां यः कश्चित् (तितृप्सात्) तृप्यतेः सनि। एकाच उपदेशेऽनुदात्तात्। पा० ७।२।१०। इण्निषेधः, लेटि आडागमः। तर्पयितुमिच्छेत्, आत्मानम् (तम्) दुष्टम् (प्रत्यञ्चम्) प्रतिकूलगतिमन्तम् (अर्चिषा) तेजसा (विध्य) ताडय (मर्मणि) जीवमरणस्थाने ॥