Go To Mantra

परा॒द्य दे॒वा वृ॑जि॒नं शृ॑णन्तु प्र॒त्यगे॑नं श॒पथा॑ यन्तु सृ॒ष्टाः। वा॒चास्ते॑नं॒ शर॑व ऋच्छन्तु॒ मर्म॒न्विश्व॑स्यैतु॒ प्रसि॑तिं यातु॒धानः॑ ॥

Mantra Audio
Pad Path

परा । अद्य । देवा: । वृजिनम् । शृणन्तु । प्रत्यक् । एनम् । शपथा: । यन्तु । सृष्टा: । वाचाऽस्तेनम् । शरव: । ऋच्छन्तु । मर्मन् । विश्वस्य । एतु । प्रऽस‍ितिम् । यातुऽधान: ॥३.१४॥

Atharvaveda » Kand:8» Sukta:3» Paryayah:0» Mantra:14


Reads 53 times

PANDIT KSHEMKARANDAS TRIVEDI

राजा के धर्म का उपदेश।

Word-Meaning: - (देवाः) विजय चाहनेवाले शूर (अद्य) आज (वृजिनम्) पापी को (परा शृणन्तु) कुचल डालें, (सृष्टाः) [उसके] छोड़े हुए [कहे हुए] (शपथाः) कुवचन (एनम्) उसको (प्रत्यक्) प्रतिकूल गति से (यन्तु) पहुँचें। (शरवः) [हमारे] तीर (वाचास्तेनम्) बतचोर [छली] पुरुष को (मर्मन्) मर्मस्थान मे (ऋच्छन्तु) प्राप्त होवें, (विश्वस्य) सब में प्रवेश करनेवाले राजा की (प्रसितिम्) बेड़ी को (यातुधानः) दुःखदायी (एतु) पावे ॥१४॥
Connotation: - वीर राजा मिथ्यावादी, चोर, डाकुओं को दण्ड देकर नाश कर दे ॥१४॥
Footnote: १४−(अद्य) अस्मिन् दिने (देवाः) विजिगीषवः शूराः (वृजिनम्) अ० १।१०।३। पापिनम्। वक्रस्वभावम् (पराशृणन्तु) दुरे नाशयन्तु (प्रत्यक्) प्रतिकूलगत्या (एनम्) वृजिनम् (शपथाः) कुवचनानि (यन्तु) प्राप्नुवन्तु (सृष्टाः) त्यक्ताः। उच्चारिताः (वाचास्तेनम्) मृषावचनेन हर्तारम् (शरवः) बाणाः (ऋच्छन्तु) ऋच्छ गतीन्द्रियप्रलयमूर्तिभावेषु। प्राप्नुवन्तु (मर्मन्) अ० ५।८।९। जीवमरणस्थाने (विश्वस्य) अशूप्रुषिलटि०। उ० १।१५१। विश प्रवेशने-क्वन्। सर्वत्र प्रवेशकस्य राज्ञः (एतु) गच्छतु (प्रसितिम्) म० ११। निगडम्। शृङ्खलाम् (यातुधानः) दुःखदायकः ॥