Go To Mantra
Viewed 92 times

यद॑ग्ने अ॒द्य मि॑थु॒ना शपा॑तो॒ यद्वा॒चस्तृ॒ष्टं ज॒नय॑न्त रे॒भाः। म॒न्योर्मन॑सः शर॒व्या॒ जाय॑ते॒ या तया॑ विध्य॒ हृद॑ये यातु॒धाना॑न् ॥

Mantra Audio
Pad Path

यत् । अग्ने । अद्य । मिथुना । शपात: । यत् । वाच: । तृष्टम् । जनयन्त: । रेभा: । मन्यो: । मनस: । शरव्या । जायते । या । तया । विध्य । हृदये । यातुऽधानान् ॥३.१२॥

Atharvaveda » Kand:8» Sukta:3» Paryayah:0» Mantra:12


PANDIT KSHEMKARANDAS TRIVEDI

राजा के धर्म का उपदेश।

Word-Meaning: - (अग्ने) हे अग्नि [समान तेजस्वी राजन् !] (यत्) जो (अद्य) आज (मिथुना) दो हिंसक मनुष्य [सत्पुरुषों से] (शपातः) कुवचन बोलते हैं, और (यत्) जो (रेभाः) शब्द करनेवाले [शत्रु लोग] (वाचः) वाणी की (तृष्टम्) कठोरता (जनयन्त) उत्पन्न करते हैं (मन्योः) क्रोध से (मनसः) मन की (या) जो (शरव्या) बाणों की झड़ी (जायते) उत्पन्न होती है, (तया) उससे (यातुधानान्) दुःखदायियों को (हृदये) हृदय में (विध्य) वेध ले ॥१२॥
Connotation: - राजा दुर्वचनभाषियों को विचारपूर्वक दण्ड देता रहे ॥१२॥
Footnote: १२−(यत्) (अग्ने) (अद्य) अस्मिन् दिने (मिथुना) अ० ६।१४१।२। मिथृ वधे-उनन्। हिंसकौ (शपातः) शपतः (यत्) (वाचः) वाण्याः (तृष्टम्) ञितृषा पिपासायाम्-भावे क्त। तृष्णाम्। कटुत्वमित्यर्थः (जनयन्त) जनयन्ति। उत्पादयन्ति (रेभाः) रेभृ शब्दे-अच्। शब्दायमानाः शत्रवः (मन्योः) क्रोधात् (मनसः) अन्तःकरणस्य (शरव्या) अ० १।१९।१। शरु-यत्। बाणसंहतिः (जायते) उत्पद्यते (या) (तया) (विध्य) ताडय (हृदये) (यातुधानान्) पीडाप्रदान् ॥