Go To Mantra
Viewed 97 times

यत्ते॒ वासः॑ परि॒धानं॒ यां नी॒विं कृ॑णु॒षे त्वम्। शि॒वं ते॑ त॒न्वि॒ तत्कृ॑ण्मः संस्प॒र्शेऽद्रू॑क्ष्णमस्तु ते ॥

Mantra Audio
Pad Path

यत् । ते । वास: । परिऽधानम् । याम् । नीविम् । कृणुषे । त्वम् । शिवम् । ते । तन्वे । तत् । कृण्म: । सम्ऽस्पर्शे । अद्रूक्ष्णम् । अस्तु । ते ॥२.१६॥

Atharvaveda » Kand:8» Sukta:2» Paryayah:0» Mantra:16


PANDIT KSHEMKARANDAS TRIVEDI

कल्याण की प्राप्ति का उपदेश।

Word-Meaning: - [हे मनुष्य !] (यत्) जिस (वासः) वस्त्र को (परिधानम्) ओढ़ना और (याम्) जिस (नीविम्) पेटी [फेंटा] को (ते) अपने लिये (त्वम्) तू (कृणुषे) बनाता है। (तत्) उसे (ते) तेरे (तन्वे) शरीर के लिये (शिवम्) सुख देनेवाला (कृण्मः) हम बनाते हैं, वह (ते) तेरे लिये (संस्पर्शे) छूने में (अद्रूक्ष्णम्) अनखुरखुरा (अस्तु) होवे ॥१६॥
Connotation: - मनुष्य कवच, अङ्गरक्षा आदि वस्त्र शरीर के लिये, सुखदायक बनावें ॥१६॥
Footnote: १६−(यत्) (ते) त्वदर्थम्। स्वस्मै (वासः) वस्त्रम् (परिधानम्) उपर्य्याच्छादनम् (याम्) (नीविम्) नौ व्यो यलोपः पूर्वस्य च दीर्घः। उ० ४।१३६। नि+व्येञ् संवरणे-इण्, स च डित्, यलोपश्च। कटिबन्धनम् (कृणुषे) करोषि (त्वम्) (शिवम्) सुखकरम् (ते) तव (तन्वे) शरीराय (तत्) वस्त्रम् (कृण्मः) कुर्मः (संस्पर्शे) स्पर्शकरणे (अद्रूक्ष्णम्) इण्सिञ्जि०। उ० ३।२। रूक्ष पारुष्ये−नक्, दकारश्छान्दसः। अरूक्ष्णम्। अकोठरम् (अस्तु) (ते) तुभ्यम् ॥