Go To Mantra
Viewed 76 times

शि॒वे ते॑ स्तां॒ द्यावा॑पृथि॒वी अ॑संता॒पे अ॑भि॒श्रियौ॑। शं ते॒ सूर्य॒ आ त॑पतु॒ शं वातो॑ वातु ते हृ॒दे। शि॒वा अ॒भि क्ष॑रन्तु॒ त्वापो॑ दि॒व्याः पय॑स्वतीः ॥

Mantra Audio
Pad Path

श‍िवे इति । ते । स्ताम् । द्यावापृथिवी इति । असंतापे इत्यसम्ऽतापे । अभिऽश्रियौ । शम् । ते । सूर्य: । आ । तपतु । शम् । वात: । वातु । ते । हृदे । शिवा: । अभि । क्षरन्तु । त्वा । आप: । द‍िव्या: । पयस्वती: ॥२.१४॥

Atharvaveda » Kand:8» Sukta:2» Paryayah:0» Mantra:14


PANDIT KSHEMKARANDAS TRIVEDI

कल्याण की प्राप्ति का उपदेश।

Word-Meaning: - [हे मनुष्य !] (ते) तेरे लिये (द्यावापृथिवी) आकाश और पृथिवी (शिवे) मङ्गलकारी, (असन्तापे) सन्तापरहित और (अभिश्रियौ) सब ओर से ऐश्वर्यप्रद (स्ताम्) होवें। (सूर्यः) सूर्य (ते) तेरे लिये (शम्) शान्ति से (आ तपतु) तपता रहे, और (वातः) पवन (ते) तेरे (हृदे) हृदय के लिये (शम्) शान्ति से (वातु) चले। (शिवाः) मङ्गलकारी, (दिव्याः) दिव्य गुणवाले, (पयस्वतीः) दूध [उत्तम रस] वाले (आपः) जल (त्वा अभि) तेरे लिये (क्षरन्तु) बहें ॥१४॥
Connotation: - मनुष्य आकाश पृथिवी आदि पदार्थों से यथावत् उपकार लेकर सुख प्राप्त करें ॥१४॥
Footnote: १४−(शिवे) कल्याणकारिण्यौ (ते) तुभ्यम् (स्ताम्) भवताम् (द्यावापृथिवी) आकाशभूमी (असन्तापे) सन्तापरहिते (अभिश्रियौ) अभितः सर्वतः श्रीर्लक्ष्मीर्याभ्यां ते। अभिश्रीप्रदे (शम्) यथा तथा सुखम् (ते) त्वदर्थम् (सूर्यः) आदित्यः (आ तपतु) प्रकाशयतु (शम्) सुखम् (वातः) वायुः (वातु) वहतु (ते) तव (हृदे) हृदयाय (शिवाः) मङ्गलकारिण्यः (अभि) प्रति (क्षरन्तु) स्रवन्तु (त्वा) त्वाम् (आपः) जलानि (दिव्याः) उत्तमगुणाः (पयस्वतीः) पयसा दुग्धेन श्रेष्ठरसेन युक्ताः ॥