Go To Mantra
Viewed 160 times

अ॒ग्नेष्टे॑ प्रा॒णम॒मृता॒दायु॑ष्मतो वन्वे जा॒तवे॑दसः। यथा॒ न रिष्या॑ अ॒मृतः॑ स॒जूरस॒स्तत्ते॑ कृणोमि॒ तदु॑ ते॒ समृ॑ध्यताम् ॥

Mantra Audio
Pad Path

अग्ने: । ते । प्राणम् । अमृतात् । आयुष्मत: । वन्वे । जातऽवेदस: । यथा । न । रिष्या: । अमृत: । सऽजू: । अस: । तत् । ते । कृणोमि । तत् । ऊं इति । ते । सम् । ऋध्यताम् ॥२.१३॥

Atharvaveda » Kand:8» Sukta:2» Paryayah:0» Mantra:13


PANDIT KSHEMKARANDAS TRIVEDI

कल्याण की प्राप्ति का उपदेश।

Word-Meaning: - [हे मनुष्य !] (ते) तेरे (प्राणम्) प्राण को (अमृतात्) अमर, (आयुष्मतः) बड़ी आयुवाले, (जातवेदसः) उत्पन्न पदार्थों के जाननेवाले (अग्नेः) अग्नि [सर्वव्यापक परमेश्वर] से (वन्वे) मैं माँगता हूँ। (यथा) जिससे (न रिष्याः) तू न मरे, (सजूः) [उसके साथ] प्रीतिवाला तू (अमृतः) अमर (असः) रहे, मैं (तत्) वह [कर्म] (ते) तेरे लिये (कृणोमि) करता हूँ, (तत् उ) वही (ते) तेरे लिये (सम्) यथावत् (ऋध्यताम्) सिद्ध होवे ॥१३॥
Connotation: - जो मनुष्य परमेश्वर की आज्ञा और गुरुजनों की शिक्षा में चलते हैं, वे बलवान् होकर सुख भोगते हैं ॥१३॥
Footnote: १३−(अग्नेः) सर्वव्यापकात् परमेश्वरात् (ते) तव (प्राणम्) जीवनम् (अमृतात्) अमरात् (आयुष्मतः) दीर्घायुर्युक्तात् (वन्वे) अहं याचे (जातवेदसः) उत्पन्नपदार्थज्ञात् (यथा) येन प्रकारेण (न रिष्याः) मा मृथाः (अमृतः) अमरः (सजूः) परमेश्वरेण सह प्रीतिः (तत्) कर्म (ते) तुभ्यम् (कृणोमि) करोमि (तत्) (उ) अवधारणे (ते) तुभ्यम् (सम्) सम्यक् (ऋध्यताम्) सिध्यतु ॥