Go To Mantra
Viewed 140 times

तुभ्यं॒ वातः॑ पवतां मात॒रिश्वा॒ तुभ्यं॑ वर्षन्त्व॒मृता॒न्यापः॑। सूर्य॑स्ते त॒न्वे॒ शं त॑पाति॒ त्वां मृ॒त्युर्द॑यतां॒ मा प्र मे॑ष्ठाः ॥

Mantra Audio
Pad Path

तुभ्यम् । वात: । पवताम् । मातरिश्वा । तुभ्यम् । वर्षन्तु । अमृतानि । आप: । सूर्य: । ते । तन्वे । शम् । तपाति । त्वाम् । मृत्यु: । दयताम् । मा । प्र । मेष्ठा: ॥१.५॥

Atharvaveda » Kand:8» Sukta:1» Paryayah:0» Mantra:5


PANDIT KSHEMKARANDAS TRIVEDI

मनुष्य कर्त्तव्य का उपदेश।

Word-Meaning: - (तुभ्यम्) तेरे लिये (मातरिश्वा) अन्तरिक्ष में चलनेवाला (वातः) वायु (पवताम्) शुद्ध हो, (तुभ्यम्) तेरे लिये (आपः) जलधाराएँ (अमृतानि) अमृत वस्तुएँ (वर्षन्तु) बरसावें। (सूर्यः) सूर्य (ते) तेरे (तन्वे) शरीर के लिये (शम्) शान्ति से (तपाति) तपे, (मृत्युः) मृत्यु (त्वाम्) तुझ पर (दयताम्) दया करे, (मा प्र मेष्ठाः) तू मत दुःखी होवे ॥५॥
Connotation: - पुरुषार्थी मनुष्य को वायु आदि पदार्थ सुखदायी होते हैं, और वह क्लेशों में नहीं पड़ता ॥५॥
Footnote: ५−(तुभ्यम्) त्वदर्थम् (वातः) वायुः (पवताम्) शुद्धयतु (मातरिश्वा) अ० ५।१०।८। अन्तरिक्षसंचारी (तुभ्यम्) (वर्षन्तु) सिञ्चन्तु (अमृतानि) मृत्युनिवारकाणि वस्तूनि (आपः) जलधाराः (सूर्यः) (ते) तव (तन्वे) शरीराय (शम्) सुखम् (तपाति) लेटि, आडागमः (त्वाम्) (मृत्युः) (दयताम्) दय रक्षणे। पालयतु। (मा प्र मेष्ठाः) मीङ् हिंसायाम्-लुङ्। एकाच उपदेशेऽनुदात्तात्। पा० ७।२।१–०। इट्प्रतिषेधः। हिंसितो दुःखितो भा भूः ॥