Go To Mantra
Viewed 85 times

इन्द्र॑ क्ष॒त्रम॒भि वा॒ममोजोऽजा॑यथा वृषभ चर्षणी॒नाम्। अपा॑नुदो॒ जन॑ममित्रा॒यन्त॑मु॒रुं दे॒वेभ्यो॑ अकृणोरु लो॒कम् ॥

Mantra Audio
Pad Path

इन्द्र । क्षत्रम् । अभ‍ि । वामम् । ओज: । अजायथा: । वृषभ: । चर्षणीनाम् । अप । अनुद: । जनम् । अमित्रऽयन्तम् । उरुम् । देवेभ्य: । अकृणो: । ऊं इति । लोकम् ॥८९.२॥

Atharvaveda » Kand:7» Sukta:84» Paryayah:0» Mantra:2


PANDIT KSHEMKARANDAS TRIVEDI

राजा के धर्म का उपदेश।

Word-Meaning: - (इन्द्र) हे परम ऐश्वर्यवाले राजन् ! (चर्षणीनाम् वृषभ) हे मनुष्यों में श्रेष्ठ ! (वामम्) उत्तम (क्षत्रम्) राज्य और (ओजः अभि) पराक्रम के लिये (अजायथाः) तू उत्पन्न हुआ है। तूने (अमित्रयन्तम्) अमित्र समान आचरणवाले (जनम्) लोगों को (अप अनुदः) हटा दिया है (उ) और (देवेभ्यः) विजय चाहनेवालों के लिये (उरुम्) विस्तीर्ण (लोकम्) स्थान (अकृणोः) किया है ॥२॥
Connotation: - राजा के पराक्रमी होने से सेनापति लोग और प्रजागण भी ओजस्वी होते हैं ॥२॥ यह मन्त्र ऋग्वेद में है−१०।१८०।३ ॥
Footnote: २−(इन्द्र) परमैश्वर्यवन् राजन् (क्षत्रम्) क्षतात् त्रायकं राज्यम् (अभि) अभिलक्ष्य (वामम्) प्रशस्यम्-निघ० ३।८। (ओजः) पराक्रमम् (अजायथाः) उत्पन्नोऽभवः (चर्षणीनाम्) मनुष्याणाम्-निघ० २।३। (अप अनुदः) अपागमयः (जनम्) लोकम् (अमित्रयन्तम्) उपमानादाचारे। पा० ३।१।१०। अमित्र-क्यच्, शतृ। नच्छन्दस्य पुत्रस्य। पा० ७।४।३५। इति ईत्वस्य आत्वस्य च निषेधः। सांहितिको दीर्घः। अमित्रः शत्रुः स इवाचरन्तम् (उरुम्) विस्तीर्णम् (देवेभ्यः) विजिगीषुभ्यः (अकृणोः) अकार्षीः (उ) समुच्चये (लोकम्) स्थानम् ॥