Go To Mantra
Viewed 90 times

घृ॒तं ते॑ अग्ने दि॒व्ये स॒धस्थे॑ घृ॒तेन॒ त्वां मनु॑र॒द्या समि॑न्धे। घृ॒तं ते॑ दे॒वीर्न॒प्त्य आ व॑हन्तु घृ॒तं तुभ्यं॑ दुह्रतां॒ गावो॑ अग्ने ॥

Mantra Audio
Pad Path

घृतम् । ते । अग्ने । दिव्ये । सधऽस्थे । घृतेन । त्वाम् । मनु: । अद्य । सम् । इन्धे । घृतम् । ते । देवी: । नप्त्य: । आ । वहन्तु । घृतम् । तुभ्यम् । दुह्रताम् । गाव: । अग्ने ॥८७.६॥

Atharvaveda » Kand:7» Sukta:82» Paryayah:0» Mantra:6


PANDIT KSHEMKARANDAS TRIVEDI

वेद के विज्ञान का उपदेश।

Word-Meaning: - (अग्ने) हे सर्वज्ञ परमेश्वर ! (ते) तेरा (घृतम्) प्रकाश (दिव्ये) दिव्य [सूक्ष्म] कारण में और (सधस्थे) मिलकर ठहरनेवाले कार्यरूप जगत् में है, (घृतेन) प्रकाश के साथ वर्त्तमान (त्वा) तुझ को (मनुः) मननशील पुरुष (अद्य) अब (सम्) यथावत् (इन्धे) प्रकाशित करता है। (ते) तेरे (घृतम्) प्रकाश को (देवीः) उत्तम गुणवाली, (नप्त्यः) न गिरनेवाली प्रजायें [हमें] (आ वहन्तु) प्राप्त करावें, (अग्ने) हे सर्वव्यापक जगदीश्वर ! (गावः) वेदवाणियाँ (तुभ्यम्) तेरे (घृतम्) प्रकाश को (दुह्रताम्) परिपूर्ण करें ॥६॥
Connotation: - विचारवान् पुरुष परमेश्वर की सत्ता और शक्ति को कारण और कार्यरूप जगत् में साक्षात् करके संसार को पुरुषार्थी बनावें ॥६॥
Footnote: ६−(घृतम्) घृ सेके दीप्तौ च-क्त। दीप्तिः (ते) तव (अग्ने) सर्वज्ञ परमेश्वर (दिव्ये) विचित्रे कारणे (सधस्थे) सहस्थितिशीले कार्यरूपे संसारे (घृतेन) प्रकाशेन (त्वाम्) (मनुः) मननशीलः पुरुषः (अद्य) इदानीम् (सम्) सम्यक् (इन्धे) ञिइन्धी दीप्तौ, ण्यर्थः। दीपयति। विज्ञापयति (घृतम्) ज्ञानप्रकाशम् (ते) तव (देवीः) उत्तमगुणयुक्ताः (नप्त्यः) नप्तृनेष्टृत्वष्टृ०। उ० २।९५। नञ्+पत्लृ गतौ-तृच्, ङीप्, छान्दसं रूपम्। न पततीति नप्त्री। नप्त्र्यः। न पतनशीलाः प्रजाः (आ) अभिमुखम् (वहन्तु) प्रापयन्तु (घृतम्) (तुभ्यम्) म० ३। तव (दुह्रताम्) बहुलं छन्दसि। पा० ७।१।८। रुडागमः। दुह्रताम्। प्रपूरयन्त (गावः) वेदवाचः−(अग्ने) हे सर्वव्यापक ॥