Go To Mantra

इ॒हैवाग्ने॒ अधि॑ धारया र॒यिं मा त्वा॒ नि क्र॒न्पूर्व॑चित्ता निका॒रिणः॑। क्ष॒त्रेणा॑ग्ने सु॒यम॑मस्तु॒ तुभ्य॑मुपस॒त्ता व॑र्धतां ते॒ अनि॑ष्टृतः ॥

Mantra Audio
Pad Path

इह । एव । अग्ने । अधि । धारय । रयिम् । मा । त्वा । नि । क्रन् । पूर्वऽचित्ता: । निऽकारिण: । क्षत्रेण । अग्ने । सुऽयमम् । अस्तु । तुभ्यम् । उपऽसत्ता । वर्धताम् । ते । अनिऽस्तृत: ॥८७.३॥

Atharvaveda » Kand:7» Sukta:82» Paryayah:0» Mantra:3


Reads 69 times

PANDIT KSHEMKARANDAS TRIVEDI

वेद के विज्ञान का उपदेश।

Word-Meaning: - (अग्ने) हे सर्वज्ञ परमात्मन् ! (इह एव) यहाँ पर ही (रयिम्) धन को (अधि) अधिकारपूर्वक (धारय) पुष्ट कर, (पूर्वचित्ताः) पहिले से सोचनेवाले [घाती], (निकारिणः) अपकारी [दुष्ट] लोग (त्वा) तुझ को (मा नि क्रन्) नीचा न करें। (अग्ने) हे सर्वव्यापक परमेश्वर (तुभ्यम्) तेरे (क्षत्रेण) [विघ्न से बचानेवाले] राज्य के साथ [हमारा] (सुयमम्) सुन्दर नियमवाला कर्म (अस्तु) होवे, (ते) तेरा (उपसत्ता) उपासक [अश्रित जन] (अनिष्टृतः) अजेय होकर (वर्धताम्) बढ़ता रहे ॥३॥
Connotation: - मनुष्य दूरदर्शी नीतिज्ञ होकर घात लगानेवाले शत्रुओं से बचकर धर्म के साथ अपनी और प्रजा की उन्नति करें ॥३॥
Footnote: ३−(इह) अस्माकं मध्ये (एव) (अग्ने) हे सर्वज्ञ (अधि) अधिकृत्य (धारय) पोषय (रयिम्) धनम् (त्वा) परमेश्वरम् (मा नि क्रन्) मन्त्रे घसह्वर०। पा० २।४।८०। करोतेर्लुङि च्लेर्लुक्। नीचैर्मा कार्षुः (पूर्वचित्ताः) प्राग्विचारवन्तः, घातिन इत्यर्थः (निकारिणः) अपकारिणः (क्षत्रेण)-म० २। विघ्नाद् रक्षकेण राज्येन (अग्ने) सर्वव्यापक (सुयमम्) ईषद्दुःसुषु०। पा० ३।३।१२६। सु+यम नियमने-खल्। यथावद् नियमयुक्तं कर्म (अस्तु) (तुभ्यम्) षष्ठ्यर्थे चतुर्थीति वक्तव्या। वा० पा० २।३।६२। तव (उपसत्ता) षद्लृ विषरणगत्यवसादनेषु-तृच्। उपासकः। आश्रितः (वर्धताम्) (ते) तव (अनिष्टृतः) स्तॄञ् आच्छादने-क्त। स्तृणातिवर्धकर्मा-निघ० २।१९। अहिंसितः। अजेयः ॥