Go To Mantra

अ॒भ्यर्चत सुष्टु॒तिं गव्य॑मा॒जिम॒स्मासु॑ भ॒द्रा द्रवि॑णानि धत्त। इ॒मं य॒ज्ञं न॑यत दे॒वता॑ नो घृ॒तस्य॒ धारा॒ मधु॑मत्पवन्ताम् ॥

Mantra Audio
Pad Path

अभि । अर्चत । सुऽस्तुतिम् । गव्यम् । आजिम् । अस्मासु । भद्रा । द्रविणानि । धत्त । इमम् । यज्ञम् । नयत । देवता । न: । घृतस्य । धारा: । मधुऽमत् । पवन्ताम् ॥८७.१॥

Atharvaveda » Kand:7» Sukta:82» Paryayah:0» Mantra:1


Reads 58 times

PANDIT KSHEMKARANDAS TRIVEDI

वेद के विज्ञान का उपदेश।

Word-Meaning: - [हे विद्वानो !] (सुष्टुतिम्) बड़ी स्तुतिवाले, (गव्यम्) पृथिवी वा स्वर्ग के लिये हितकारक, (आजिम्) प्राप्तियोग्य परमेश्वर को (अभि) भले प्रकार (अर्चत) पूजो, और (अस्मासु) हम लोगों में (भद्रा) सुखों और (द्रविणानि) बलों और धनों को (धत्त) धारण करो। (देवता) प्रकाशमान तुम सब (इमम्) इस (यज्ञम्) पूजनीय परमात्मा को (नः) हम में (नयत) पहुँचाओ, (घृतस्य) प्रकाशित ज्ञान की (धाराः) धारायें [धारण शक्तियाँ वा प्रवाह] (मधुमत्) श्रेष्ठ विज्ञानयुक्त कर्म को (पवन्ताम्) शुद्ध करें ॥१॥
Connotation: - विद्वान् लोग परमेश्वरीय ज्ञान का उपदेश करके मनुष्यों का उपकार करें ॥१॥ यह मन्त्र कुछ भेद से ऋग्वेद में है-म० ४।५८।१० ॥
Footnote: १−(अभि) सर्वतः (अर्चत) पूजयत (सुष्टुतिम्) अतिस्तुतियुक्तम् (गव्यम्) तस्मै हितम्। पा० ५।१।५। गो-यत्। गवे पृथिव्यै स्वर्गाय वा हितम् (आजिम्) अज्यतिभ्यां च। उ० ४।१३१। अज गतिक्षेपणयोः-इण। प्रापणीयं परमात्मानम् (अस्मासु) (भद्रा) सुखानि (द्रविणानि) बलानि धनानि च (धत्त) धारयत (इमम्) प्रसिद्धम् (यज्ञम्) पूजनीयं परमेश्वरम् (नयत) प्रापयत (देवता) स्वार्थे तल्। सुपां सुलुक्०। पा० ७।१।३९। इति विभक्तेर्लुक्। देवताः। यूयं प्रकाशमानाः (घृतस्य) प्रकाशितस्य बोधस्य (धाराः) धारणशक्तयः प्रवाहा वा (मधुमत्) प्रशस्तविज्ञानयुक्तं कर्म (पवन्ताम्) शोधयन्तु ॥