Go To Mantra
Viewed 89 times

यं दे॒वा अं॒शुमा॑प्या॒यय॑न्ति॒ यमक्षि॑त॒मक्षि॑ता भ॒क्षय॑न्ति। तेना॒स्मानिन्द्रो॒ वरु॑णो॒ बृह॒स्पति॒रा प्या॑ययन्तु॒ भुव॑नस्य गो॒पाः ॥

Mantra Audio
Pad Path

यम् । देवा: । अंशुम् । आऽप्याययन्ति । यम् । अक्षितम् । अक्षिता: । भक्षयन्ति । तेन । अस्मान् । इन्द्र: । वरुण: । बृहस्पति: । आ । प्याययन्तु । भुवनस्य । गोपा: ॥८६.६॥

Atharvaveda » Kand:7» Sukta:81» Paryayah:0» Mantra:6


PANDIT KSHEMKARANDAS TRIVEDI

सूर्य, चन्द्रमा के लक्षणों का उपदेश।

Word-Meaning: - (यम्) जिस (अंशुम्) अमृत [चन्द्रमा के रस] को (देवाः) प्रकाशमान सूर्य की किरणें [शुक्लपक्ष में] (आप्याययन्ति) बढ़ा देती हैं, और (यम्) जिस (अक्षितम्) बिना घटे हुए को (अक्षिताः) वे व्यापक [किरणें] (भक्षयन्ति) [कृष्ण पक्ष में] खा लेती हैं। (तेन) उसी [नियम] से (अस्मान्) हमको (भुवनस्य) संसार के (गोपाः) रक्षा करनेवाला (इन्द्रः) परम ऐश्वर्यवान् राजा, (वरुणः) श्रेष्ठ वैद्य और (बृहस्पतिः) बड़ी विद्याओं का स्वामी, आचार्य (आ) सब प्रकार (प्याययन्तु) बढ़ावें ॥६॥
Connotation: - जिस नियम से सूर्य की किरणें चन्द्रमा के अनिष्ट रस को खींचकर अमृत उत्पन्न करती हैं, वैसे ही राजा आदि गुरुजन प्रजा के दुखों का नाश करके सुख प्राप्त करावें ॥६॥ इति सप्तमोऽनुवाकः ॥
Footnote: ६−(यम्) (देवाः) देवः=द्युस्थानः-निरु० ७।१५। प्रकाशमानाः सूर्यरश्मयः (अंशुम्)-म० ३। सोमम्। चन्द्ररसम् (आ प्याययन्ति) सर्वतो वर्धयन्ति, शुक्लपक्षे (यम्) (अक्षितम्) अक्षीणम् (अक्षिताः) अक्षू व्याप्तौ-क्त। व्याप्ताः किरणाः (भक्षयन्ति) अदन्ति। आकर्षन्ति, कृष्णपक्षे (तेन) नियमेन (अस्मान्) (इन्द्रः) परमैश्वर्यवान् राजा (वरुणः) श्रेष्ठो वैद्यः (बृहस्पतिः) बृहतीनां विद्यानां पालकः। आचार्यः (आ) समन्तात् (प्याययन्तु) वर्धयन्तु (भुवनस्य) लोकस्य (गोपाः) गुपू रक्षणे-घञ्। गोपायितारः। रक्षकाः ॥