Go To Mantra
Viewed 87 times

प॑द॒ज्ञा स्थ॒ रम॑तयः॒ संहि॑ता वि॒श्वना॑म्नीः। उप॑ मा देवीर्दे॒वेभि॒रेत॑। इ॒मं गो॒ष्ठमि॒दं सदो॑ घृ॒तेना॒स्मान्त्समु॑क्षत ॥

Mantra Audio
Pad Path

पदऽज्ञा: । स्थ । रमतय: । सम्ऽहिता: । विश्वऽनाम्नी: । उप । मा । देवी: । देवेभि: । आ । इत । इमम् । गोऽस्थम् । इदम् । सद: । घृतेन । अस्मान् । सम् । उक्षत ॥७९.२॥

Atharvaveda » Kand:7» Sukta:75» Paryayah:0» Mantra:2


PANDIT KSHEMKARANDAS TRIVEDI

सामाजिक उन्नति का उपदेश।

Word-Meaning: - [हे प्रजाओ ! तुम] (पदज्ञाः) पगदण्डी [वा अपने पद] को जाननेवाली, (रमतयः) क्रीड़ा करनेवाली, (संहिताः) यथावत् हित करनेवाली वा परस्पर मिली हुई और (विश्वनाम्नीः) व्याप्त नामवाली (स्थ) हो। (देवीः) हे दिव्य गुणवाली देवियो ! (देवेभिः) उत्तम गुणों के साथ (मा) मुझ को (उप) समीप से (आ इत्) प्राप्त होवो। (इमम्) इस (गोष्ठम्) वाचनालय को, (इदम्) इस (सदः) बैठक को और (अस्मान्) हमको (घृतेन) प्रकाश से (सम्) यथावत् (उक्षत) बढ़ाओ ॥२॥
Connotation: - मनुष्य परमेश्वर और विद्वानों के मार्ग और अपनी स्थिति को जान कर परस्पर हित करके सामाजिक उन्नति करें ॥२॥
Footnote: २−(पदज्ञाः) पदचिह्नस्य स्थानस्य वा ज्ञात्र्यः (स्थ) भवथ (रमतयः) अ० ६।७३।२। रमयित्र्यः (संहिताः) सम्+धा धारणी वा हि गतौ-क्त। सम्यक् हितं प्रतिपाद्यं यासां ताः परस्परसंगता वा (विश्वनाम्नीः) वा च्छन्दसि। पा० ६।१।१०६। इति जसः पूर्वसवर्णदीर्घः। व्याप्तनामधेयाः (उप) समीपे (मा) माम् (देवीः) देव्यः। दिव्यगुणाः (देवेभिः) उत्तमगुणैः (आ इत) आगच्छत (इमम्) (गोष्ठम्) वाचस्तिष्ठन्त्यत्र। वाचनालयम् (इदम्) (सदः) सदनम् (घृतेन) प्रकाशेन (अस्मान्) (सम्) सम्यक् (उक्षत) उक्षितः, महन्नाम-निघ० ३।३। उक्षण उक्षतेर्वृद्धिकर्मणः-निरु० १२।९। वर्धयत ॥