Go To Mantra
Viewed 93 times

श्रा॒तं म॑न्य॒ ऊध॑नि श्रा॒तम॒ग्नौ सुशृ॑तं मन्ये॒ तदृ॒तं नवी॑यः। माध्य॑न्दिनस्य॒ सव॑नस्य द॒ध्नः पिबे॑न्द्र वज्रिन्पुरु॒कृज्जु॑षा॒णः ॥

Mantra Audio
Pad Path

श्रातम् । मन्ये । ऊधनि । श्रातम् । अग्नौ । सुऽशृतम् । मन्ये । तत् । ऋतम्। नवीय: । माध्यंदिनस्य । सवनस्य । दध्न: । पिब । इन्द्र । वज्रिन् । पुरुऽकृत् । जुषाण: ॥७६.१॥

Atharvaveda » Kand:7» Sukta:72» Paryayah:0» Mantra:3


PANDIT KSHEMKARANDAS TRIVEDI

पुरुषार्थ करने का उपदेश।

Word-Meaning: - (ऊधनि) [दूसरों को] चलाने वा सींचने में (श्रातम्) परिपक्वता [निश्चयपन], (अग्नौ) अग्नि अर्थात् पराक्रम में (श्रातम्) परिपक्वता (मन्ये) मैं मानता हूँ, [जो] (ऋतम्) सत्य धर्म है, (तत्) उसको (नवीयः) अधिक स्तुतियोग्य, (सुशृतम्) सुपरिपक्व [सुनिश्चित कर्म] (मन्ये) मैं मानता हूँ। (वज्रिन्) हे वज्रधारी ! (पुरुकृत) हे अनेक कर्म करनेवाले (इन्द्र) बड़े ऐश्वर्यवाले मनुष्य ! (जुषाणः) प्रसन्न होकर (माध्यन्दिनस्य) मध्य दिन के (सवनस्य) काल वा स्थान की (दध्नः) धारण शक्ति का (पिब) पान कर ॥३॥
Connotation: - मनुष्य सत्य वैदिक धर्म में पूर्ण निष्ठा रखकर परोपकार और पराक्रम करके सूर्य के समान तेजस्वी हो ॥३॥
Footnote: ३−(श्रातम्)-म० १। भावे-क्त। परिपचनम् सुनिश्चयम् (मन्ये) अहं जाने (ऊधनि) अ० ४।११।४। श्वेः सम्प्रसारणं च। उ० ४।१९३। वह प्रापणे-असुन्। यद्वा। उन्दी क्लेदने-असुन्, इति ऊधस्, पृषोदरादि रूपम्। छन्दस्यपि दृश्यते। पा० ७।१।७६। ऊधस् शब्दस्यापि अनङ् आदेशः। यद्वा। ऊधसोऽनङ्। पा० ५।४।१३१। समासे विधीयमानोऽनङ् छन्दसि केवलादपि। ऊधसि। वहने नयने। सेचने (श्रातम्) (अग्नौ) पराक्रमे (सुशृतम्) शृतं पाके। पा० ६।१।२७। श्रा पाके-क्त। परिपक्वम्। निश्चितम् (मन्ये) (तत्) (ऋतम्) यत्सत्यं धर्मः (नवीयः) णु स्तुतौ-अप्+ईयसुन्। स्तुत्यनरम् (माध्यन्दिनस्य) अन्तःपूर्वपदात् ठञ्। पा० ४।३।६०। मध्यो मध्यं दिनण् चास्मात्। इति वार्तिकम्। मध्य-दिनण्प्रत्ययः। मध्ये भवस्य। यद्वा। उत्सादिभ्योऽञ्। पा० ४।१।८६। मध्यन्दिन-अञ्। मध्यदिने भवस्य (सवनस्य) षू प्रेरणे-ल्युट्। सवनानि स्थानानि-निरु० ५।२५। कालस्य स्थानस्य (दध्नः) भाषायां धाञ्कृञ्सृजनि। वा० पा० ३।२।१७१। डुधाञ् धारणपोषणयोः-कि। यद्वा। सर्वधातुभ्य इन्। उ० ४।११८। दध धारणे-इन्। अस्थिदधि०। पा० ७।१।७५। इत्यनङ्। धारणस्य। आलम्बनस्य (पिब) पानं कुरु। स्वीकुरु (इन्द्र) परमैश्वर्यवन् पुरुष (वज्रिन्) वज्रधारक (पुरुकृत्) हे बहुकर्मन् (जुषाणः) प्रीयमाणः ॥