Go To Mantra
Viewed 86 times

यद्य॒न्तरि॑क्षे॒ यदि॒ वात॒ आस॒ यदि॑ वृ॒क्षेषु॒ यदि॒ वोल॑पेषु। यदश्र॑वन्प॒शव॑ उ॒द्यमा॑नं॒ तद्ब्राह्म॒णं पुन॑र॒स्मानु॒पैतु॑ ॥

Mantra Audio
Pad Path

यदि । अन्‍तरिक्षे । यदि । वाते । आस । यदि । वृक्षेषु । यदि । वा । उलपेषु । यत् । अश्रवन् । पशव: । उद्यमानम् । तत् । ब्राह्मणम् । पुन: । अस्मान् । उपऽऐतु ॥६८.१॥

Atharvaveda » Kand:7» Sukta:66» Paryayah:0» Mantra:1


PANDIT KSHEMKARANDAS TRIVEDI

वेदविज्ञान की व्याप्ति का उपदेश।

Word-Meaning: - (यदि=यत्) जो [ब्रह्मज्ञान] (अन्तरिक्षे) आकाश में, (यदि) जो (वाते) वायु में (यदि) जो (वृक्षेषु) वृक्षों में, (वा) और (यदि) जो (उलपेषु) कोमल तृणों [अन्न आदि] में (आस) व्याप्त था। (यत्) जिस (उद्यमानम्) उच्चारण किये हुए को (पशवः) सब प्राणियों ने (अश्रवन्) सुना है, (तत्) वह (ब्राह्मणम्) वेद विज्ञान (पुनः) बारंबार [अथवा परजन्म में] (अस्मान्) हमें (उपैतु) प्राप्त होवे •॥१॥
Connotation: - ईश्वरज्ञान सब पदार्थों में, और सब पदार्थ ईश्वरज्ञान में हैं, मनुष्य उस ईश्वरज्ञान को नित्य और जन्म-जन्म में प्राप्त करके मोक्षपदभागी होवें ॥१॥
Footnote: १−(यदि) यत्। ब्राह्मणम् (अन्तरिक्षे) आकाशे (यदि) (वाते) वायौ (आस) अस गतिदीप्त्यादानेषु-लिट्। व्याप्तं बभूव (यदि) (वृक्षेषु) सेवनीयेषु तरुषु (यदि) (वा) अवधारणे। समुच्चये (उलपेषु) विटपविष्टपविशिपोलपाः। उ० ३।१४५। बल संवरणे-कप् प्रत्ययः, सम्प्रसारणम्। कोमलतृणेषु। अन्नादिषु (यत्) ब्राह्मणम् (अश्रवन्) शृणोतेर्लङि छान्दसः शप्। अशृण्वन् (पशवः) अ० २।२६।१। मनुष्यादिप्राणिनः (उद्यमानम्) वद् व्यक्तायां वाचि कर्मणि शानच्, यक्, यजादित्वात् सम्प्रसारणम्। उच्चार्यमाणम् (तत्) (ब्राह्मणम्) तस्येदम्। पा० ४।३।१२०। ब्रह्मन्-अण्। अन्। पा० ६।४।१६७। न टिलोपः। ब्रह्मणः परमेश्वरस्य ब्राह्मणस्य वेदम्। वेदविज्ञानम् (पुनः) वारं वारम्। परजन्मनि वा (अस्मान्) उपासकान् (उपैतु) उप+आ+एतु। प्राप्नोतु ॥