Viewed 76 times
उद्व॒यं तम॑स॒स्परि॒ रोह॑न्तो॒ नाक॑मुत्त॒मम्। दे॒वं दे॑व॒त्रा सूर्य॒मग॑न्म॒ ज्योति॑रुत्त॒मम् ॥
Pad Path
उत् । वयम् । तमस: । परि । रोहन्त: । नाकम् । उत्ऽतमम् । देवम् । देवऽत्रा । सूर्यम् । अगन्म । ज्योति: । उत्ऽतमम् ॥५५.७॥
Atharvaveda » Kand:7» Sukta:53» Paryayah:0» Mantra:7
PANDIT KSHEMKARANDAS TRIVEDI
विद्वानों के कर्त्तव्य का उपदेश।
Word-Meaning: - (तमसः) अन्धकार से (परि) पृथक् होकर (उत्तमम्) उत्तम (नाकम्) सुख में (उद् रोहन्तः) ऊपर चढ़ते हुए (वयम्) हमने (देवत्रा) प्रकाशमानों में (देवम्) प्रकाशमान, (उत्तमम्) उत्तम (ज्योतिः) ज्योतिःस्वरूप, (सूर्यम्) सबके प्रेरक सूर्य जगदीश्वर को (अगन्म) पाया है ॥७॥
Connotation: - विद्वान् योगीजन विद्या के प्रकाश से मुक्तिसुख को भोगते हुए ज्योतिःस्वरूप परमात्मा में निरन्तर विचरते हैं ॥७॥ यह मन्त्र कुछ भेद से यजुर्वेद में है−२०।२१, २७।१०, ३५।१४, ३८।२४ ॥
Footnote: ७−(उत्) उत्कर्षेण (वयम्) योगिनः (तमसः) अन्धकारात् (परि) पृथग्भूय (रोहन्तः) आरूढाः सन्तः (नाकम्) दुःखरहितं मोक्षसुखम् (उत्तमम्) सर्वोत्कृष्टम् (देवम्) प्रकाशमानं (देवत्रा) देवमनुष्यपुरुषपुरु०। पा० ५।४।५६। सप्तम्यर्थे-त्रा। प्रकाशमानेषु (सूर्यम्) अ० १।३।५। लोकप्रेरकं परमात्मानम् (अग्नम्) वयं प्राप्तवन्तः (ज्योतिः) ज्योतीरूपं द्योतमानम् (उत्तमम्) ॥
