Go To Mantra
Viewed 85 times

सं क्रा॑मतं॒ मा ज॑हीतं॒ शरी॑रं प्राणापा॒नौ ते॑ स॒युजा॑वि॒ह स्ता॑म्। श॒तं जी॑व श॒रदो॒ वर्ध॑मानो॒ऽग्निष्टे॑ गो॒पा अ॑धि॒पा वसि॑ष्ठः ॥

Mantra Audio
Pad Path

सम् । क्रामतम् । मा । जहीतम् । शरीरम् । प्राणापानौ । ते । सऽयुजौ । इह । स्ताम् । शतम् । जीव । शरद: । वर्धमान: । अग्नि: । ते । गोपा: । अधिऽपा: । वसिष्ठ: ॥५५.२॥

Atharvaveda » Kand:7» Sukta:53» Paryayah:0» Mantra:2


PANDIT KSHEMKARANDAS TRIVEDI

विद्वानों के कर्त्तव्य का उपदेश।

Word-Meaning: - (प्राणापानौ) हे प्राण और अपान ! तुम दोनों (संक्रामतम्) मिलकर चलो, (शरीरम्) इसके शरीर को (मा जहीतम्) मत छोड़ो। [हे मनुष्य !] वे दोनों (ते) तेरे लिये (सयुजौ) मिले हुए (इह) यहाँ पर (स्ताम्) रहें, (शतम् शरदः) सौ बरस तक (वर्धमान) बढ़ता हुआ (जीव) तू जीता रहे, (अग्निः) सर्वव्यापक परमेश्वर [वा जाठराग्नि] (ते) तेरा (गोपाः) रक्षक, (अधिपाः) अधिक पालन करनेवाला और (वसिष्ठः) अत्यन्त श्रेष्ठ है ॥२॥
Connotation: - मनुष्य परमेश्वर का आश्रय लेकर प्राण, अपान और जाठराग्नि को सम रख सब प्रकार बलवान् होकर पूर्ण आयु भोगें ॥२॥
Footnote: २−(संक्रामतम्) संगतौ भवतम् (मा जहीतम्) ओहाक् त्यागे-लोट्। मा त्यजतम् (शरीरम्) देहम् (प्राणापानौ) प्राणितीति प्राणो नासिका विवराद् बहिर्निर्गच्छन् वायुः, अपानितीति अपानो हृदयस्य अधोभागे संचरन् वायुः, तौ (ते) तुभ्यम् (सयुजौ) संयुक्तौ (इह) अस्मिन् देहे (स्ताम्) भवताम् (शतम्) (जीव) प्राणान् धारय (शरदः) सम्वत्सरान् (वर्धमानः) वृद्धिं कुर्वाणः (अग्निः) परमेश्वरो जाठराग्निर्वा (गोपाः) अ० ५।३।२। गोपायिता। रक्षकः (अधिपाः) अधिकपालकः (वसिष्ठः) अ० ४।२९।३। अतिश्रेष्ठः ॥