Go To Mantra
Viewed 105 times

कु॒हूं दे॒वीं सु॒कृतं॑ विद्म॒नाप॑सम॒स्मिन्य॒ज्ञे सु॒हवा॑ जोहवीमि। सा नो॑ र॒यिं वि॒श्ववा॑रं॒ नि य॑च्छा॒द्ददा॑तु वी॒रं श॒तदा॑यमु॒क्थ्यम् ॥

Mantra Audio
Pad Path

कुहूम् । देवीम् । सुऽकृतम् । विद्मनाऽअपसम् । अस्मिन् । यज्ञे । सुऽहवा । जोहवीमि । सा । न: । रयिम् । विश्वऽवारम् । नि । यच्छात् । ददातु । वीरम् । शतऽदायम् । उक्थ्यम् ॥४९.१॥

Atharvaveda » Kand:7» Sukta:47» Paryayah:0» Mantra:1


PANDIT KSHEMKARANDAS TRIVEDI

स्त्रियों के गुणों का उपदेश।

Word-Meaning: - (सुकृतम्) सुन्दर काम करनेवाली, (विद्मनापसम्) कर्तव्यों को जाननेवाली, (देवीम्) दिव्यगुणवाली (कुहूम्) कुहू, अर्थात् अद्भुत स्वभाववाली स्त्री को (अस्मिन्) इस (यज्ञे) यज्ञ में (सुहवा) विनीत बुलावे के साथ (जोहवीमि) मैं बुलाता हूँ। (सा) वह (नः) हमें (विश्ववारम्) सब उत्तम व्यवहारवाले (रयिम्) धन को (नि) नित्य (यच्छात्) देती रहे और (शतदायम्) असंख्य धनवाला, (उक्थ्यम्) प्रशंसनीय (वीरम्) वीर सन्तान (ददातु) देवे ॥१॥
Connotation: - गुणवती, समझदार स्त्री गृहकार्य में परिमित व्यय कर धनवती होकर अपने सन्तानों को उत्तम वीर बनावें ॥१॥ यह मन्त्र कुछ भेद से-निरु० ११।३३। में व्याख्यात है ॥
Footnote: १−(कुहूम्) मृगय्वादयश्च। उ० १।३७। कुह विस्मापने-कु, ऊङ्। सिनीवाली कुहूरिति देवपत्न्यौ-निरु० ११।३१। कुहूर्गूहतेः क्वाभूदिति वा क्व सती हूयत इति वा। क्वाहुतं हविर्जुहोतीति वा-निरु० ११-३२। कुहूः पदनाम-निघ० ५।५। विस्मापनशीलाम्। अद्भुतस्वभावां स्त्रियम् (देवीम्) दिव्यगुणाम् (सुकृतम्) सुकर्माणम् (विद्मनापसम्) इषियुधीन्धि०। उ० १।१४५। इति विद ज्ञाने-मक्। विद्मो वेदनम्, तद्वत् विद्मनम्, पामादिलक्षणो न प्रत्ययः, अपः कर्म। विद्मनानि विदितान्यपांसि कर्माणि यस्यास्ताम्। विदितकर्माणम्-निरु० ११।३३। (अस्मिन्) (यज्ञे) पूजनीये कर्मणि (सुहवा) विभक्तेराकारः। सुहवेन। शोभनाह्वानेन (जोहवीमि) भृशमाह्वयामि (सा) कुहूः (नः) अस्मभ्यम् (रयिम्) धनम् (विश्ववारम्) सर्ववर्णनीयव्यवहारयुक्तम् (नि) नित्यम् (यच्छात्) दद्यात् (ददातु) (वीरम्) वीरसन्तानम् (शतदायम्) ददातेर्घञ्, युक्। बहुधनम् (उक्थ्यम्) प्रशस्यम् ॥