Go To Mantra
Viewed 81 times

श्ये॒नो नृ॒चक्षा॑ दि॒व्यः सु॑प॒र्णः स॒हस्र॑पाच्छ॒तयो॑निर्वयो॒धाः। स नो॒ नि य॑च्छा॒द्वसु॒ यत्परा॑भृतम॒स्माक॑मस्तु पि॒तृषु॑ स्व॒धाव॑त् ॥

Mantra Audio
Pad Path

श्येन: । नृऽचक्षा: । दिव्य: । सुऽपर्ण: । सहस्रऽपात् । शतऽयोनि: । वय:ऽधा: । स । न: । नि । यच्छात् । वसु । यत् । पराऽभृतम् । अस्माकम् । अस्तु । पितृषु । स्वधाऽवत् ॥४२.२॥

Atharvaveda » Kand:7» Sukta:41» Paryayah:0» Mantra:2


PANDIT KSHEMKARANDAS TRIVEDI

ऐश्वर्य पाने का उपदेश।

Word-Meaning: - (नृचक्षाः) मनुष्यों को देखनेवाला, (दिव्यः) दिव्यस्वरूप, (सुपर्णः) बड़ी पालन शक्तिवाला (सहस्रपात्) सहस्रों असीम पाद अर्थात् गति शक्तिवाला, [मन से अधिक वेगवाला-यजु० ४०।४] (शतयोनिः) सैकड़ों [अगणित] लोकों का घर, (वयोधाः) अन्नदाता (श्येनः) ज्ञानवान् परमात्मा है। (सः) वह (नः) हमें (वसु) वह धन (नि) निरन्तर (यच्छात्) देवे, (यत्) जो (पराभृतम्) पराक्रम से धारण किया गया (अस्माकम्) हमारे (पितृषु) पितरों [बड़े बूढ़ों] के बीच (स्वधावत्) आत्मधारण शक्तिवाला (अस्तु) होवे ॥२॥
Connotation: - मनुष्य परमेश्वर के अनन्त सामर्थ्यों को विचारकर अनेक उद्योगों के साथ विद्वानों का पालन करके सदा आनन्द भोगें ॥२॥
Footnote: २−(श्येनः) म० १। ज्ञानवान् परमात्मा (नृचक्षाः) नॄणां द्रष्टा (दिव्यः) अद्भुतस्वरूपः (सुपर्णः) अ० १।२४।१। शोभनपालनः (सहस्रपात्) पद गतौ-घञ्। संख्यासुपूर्वस्य। पा० ५।४।१४०। अन्त्यलोपः। सहस्राणि अपरिमिताः पादा गतिशक्त्यो यस्य सः। मनसो जवीयः-यजु० ४०।४। इति श्रुतेः (शतयोनिः) योनिर्गृहम्-निघ० ३।४। अपरिमितानां लोकानां गृहम् (वयोधाः) अ० ५।११।११। अन्नस्य दाता (सः) परमेश्वरः (नः) अस्मभ्यम् (नि) निरन्तरम् (यच्छात्) दद्यात् (वसु) धनम् (यत्) (पराभृतम्) पराक्रमेण धृतम् (अस्माकम्) (अस्तु) (पितृषु) पित्रादिमान्येषु (स्वधायत्) अ० ३।२९।१। आत्मधारणसामर्थ्ययुक्तम् ॥