Go To Mantra
Viewed 90 times

इन्द्रो॒तिभि॑र्बहु॒लाभि॑र्नो अ॒द्य या॑वच्छ्रे॒ष्ठाभि॑र्मघवन्छूर जिन्व। यो नो॒ द्वेष्ट्यध॑रः॒ सस्प॑दीष्ट॒ यमु॑ द्वि॒ष्मस्तमु॑ प्रा॒णो ज॑हातु ॥

Mantra Audio
Pad Path

इन्द्र । ऊतिऽभि: । बहुलाभि: । न: । अद्य । यावत्ऽश्रेष्ठाभि: । मघऽवन् । शूर । जिन्व । य: । न: । द्वेष्टि । अधर: । स: । पदीष्ट । यम् । ऊं इति । द्विष्म: । तम् । ऊं इति । प्राण: । जहातु ॥३२.१॥

Atharvaveda » Kand:7» Sukta:31» Paryayah:0» Mantra:1


PANDIT KSHEMKARANDAS TRIVEDI

राजा के कर्त्तव्य का उपदेश।

Word-Meaning: - (मघवन्) हे बड़े धनी ! (शूर) हे शूर ! (इन्द्र) हे सम्पूर्ण ऐश्वर्यवाले राजन् ! (नः) हमें (अद्य) आज (बहुलाभिः) अनेक (यावच्छ्रेष्ठाभिः) यथासम्भव श्रेष्ठ (ऊतिभिः) रक्षाक्रियाओं से (जिन्व) प्रसन्न कर। (यः) जो (नः) हमसे (द्वेष्टि) वैर करता है, (सः) वह (अधरः) नीचा हो कर (पदीष्ट) चला जावे, (उ) और (यम्) जिससे (द्विष्मः) हम वैर करते हैं, (तम्) उसको (उ) भी (प्राणः) उसका प्राण (जहातु) छोड़ देवे ॥१॥
Connotation: - राजा अपने शूर वीरों सहित यथाशक्ति सब प्रकार के उपायों से शिष्टों का पालन और दुष्टों का निवारण करे ॥१॥ यह मन्त्र कुछ भेद से ऋग्वेद में है−३।५३।२१ ॥
Footnote: १−(इन्द्र) हे परमैश्वर्यवन् राजन् (ऊतिभिः) रक्षाक्रियाभिः (बहुलाभिः) अ० ३।१४।६। बहुप्रकाराभिः (नः) अस्मान् (अद्य) अस्मिन् दिने (यावच्छ्रेष्ठाभिः) यथासम्भवं प्रशस्यतमाभिः (मघवन्) महाधनिन् (शूर) (जिन्व) जिवि प्रीणने। प्रसादय (यः) शत्रुः (नः) अस्मान् (द्वेष्टि) वैरयति (सः) शत्रुः। विसर्गसकारौ सांहितिकौ (पदीष्ट) पद गतौ आशीर्लिङि। छन्दस्युभयथा। पा० ३।४।२१७। इति सार्वधातुकत्वात्सलोपः, सुट्तिथोः। पा० ३।४।१०७। इति सुडागमः पत्सीष्ट। गम्यात् (यम्) (उ) चार्थे (द्विष्मः) वैरयामः (तम्) (उ) अपि (प्राणः) जीवनहेतुः (जहातु) ओहाक् त्यागे। त्यजतु ॥