Viewed 105 times
स्वाक्तं॑ मे॒ द्यावा॑पृथि॒वी स्वाक्तं॑ मि॒त्रो अ॑कर॒यम्। स्वाक्तं॑ मे॒ ब्रह्म॑ण॒स्पतिः॒ स्वाक्तं॑ सवि॒ता क॑रत् ॥
Pad Path
सुऽआक्तम् । मे । द्यावापृथिवी इति । सुऽआक्तम् । मित्र: । अक: । अयम् । सुऽआक्तम् । मे । ब्रह्मण: । पति: । सुऽआक्तम् । सविता । करत् ॥३१.१॥
Atharvaveda » Kand:7» Sukta:30» Paryayah:0» Mantra:1
PANDIT KSHEMKARANDAS TRIVEDI
शुभ कर्म करने का उपदेश।
Word-Meaning: - (द्यावापृथिवी) सूर्य और पृथिवी ने (मे) मेरा (स्वाक्तम्) स्वागत [किया है], (अयम्) इस (मित्रः) मित्र [माता-पिता आदि] ने (स्वाक्तम्) स्वागत (अकः) किया है। (ब्रह्मणः) वेदविद्या का (पतिः) रक्षक [आचार्य] (मे) मेरा (स्वाक्तम्) स्वागत, और (सविता) प्रजाप्रेरक शूर पुरुष (स्वाक्तम्) स्वागत (करत्) करे ॥१॥
Connotation: - मनुष्य सदा ऐसे शुभ कर्म करे, जिससे संसार के सब पदार्थ और विद्वान् लोग उसके उपकारी होवें ॥१॥
Footnote: १−(स्वाक्तम्) सु+आङ्+अञ्जू व्यक्तिम्रक्षणकान्तिगतिषु-क्त। स्वागतम् शुभागमनम्, अकार्ष्टाम्, कृतवत्यौ-इति शेषः (मे) मम (द्यावापृथिवी) द्यावापृथिव्यौ (मित्रः) मातापित्रादिः (अकः) अ० १।८।१। करोतेर्लुङि, इकारलोपे तलोपः। अकार्षीत् (अयम्) समीपवर्ती (ब्रह्मणः) वेदस्य (पतिः) रक्षकः आचार्यः। (सविता) प्रजाप्रेरकः शूरः (करत्) लेटि रूपम्। कुर्यात्। अन्यद् गतम् ॥
