Go To Mantra
Viewed 100 times

यन्न॒ इन्द्रो॒ अख॑न॒द्यद॒ग्निर्विश्वे॑ दे॒वा म॒रुतो॒ यत्स्व॒र्काः। तद॒स्मभ्यं॑ सवि॒ता स॒त्यध॑र्मा प्र॒जाप॑ति॒रनु॑मति॒र्नि य॑च्छात् ॥

Mantra Audio
Pad Path

यत् । न: । इन्द्र: । अखनत् । यत् । अग्नि: । विश्वे । देवा: । मरुत: । यत् । सुऽअर्का: । तत् । अस्मभ्यम् । सविता । सत्यऽधर्मा । प्रजाऽपति: । अनुऽपति: । नि । यच्छात् ॥२५.१॥

Atharvaveda » Kand:7» Sukta:24» Paryayah:0» Mantra:1


PANDIT KSHEMKARANDAS TRIVEDI

ऐश्वर्य पाने का उपदेश।

Word-Meaning: - (यत्) जो [ऐश्वर्य] (नः) हमारे लिये (इन्द्रः) बड़े ऐश्वर्यवाले पुरुष ने और (यत्) जो (अग्निः) अग्निसमान तेजस्वी पुरुष ने (अखनत्) खोदा है, और (यत्) जो (विश्वे) सब (देवाः) व्यवहारकुशल, (स्वर्काः) बड़े वज्रवाले (मरुतः) शूर लोगों ने [खोदा है]। (तत्) वह [वैसा ही ऐश्वर्य] (अस्मभ्यम्) हमें (सत्यधर्म्मा) सत्यधर्मी, (प्रजापतिः) प्रजापालक, (अनुमतिः) अनुकूल बुद्धिवाला (सविता) सृष्टिकर्ता परमेश्वर (नि) नियमपूर्वक (यच्छात्) देता रहे ॥१॥
Connotation: - जिस प्रकार ऐश्वर्यवान्, प्रतापी, व्यवहारनिपुण, शूरवीर पुरुषों ने ऐश्वर्य पाया है, उसी प्रकार विज्ञानी सत्यपराक्रमी पुरुष परमेश्वर के अनन्त कोश से ऐश्वर्य पाते रहें ॥१॥ (मरुतः) शब्द का विशेष विवरण अ० १।२०।१। में देखो ॥
Footnote: १−(यत्) ऐश्वर्यम् (नः) अस्मभ्यम् (इन्द्रः) परमैश्वर्ययुक्तो मनुष्यः (अखनत्) खननेन प्राप्तवान् (यत्) (अग्निः) अग्निवत्तेजस्वी (विश्वे) सर्वे (देवाः) व्यवहारकुशलाः (मरुतः) अ० १।२०।१। शूराः (यत्) ऐश्वर्यम् (स्वर्काः) कृदाधारार्चिकलिभ्यः कः। उ० ३।४०। अर्च पूजायां क, चस्य कः। अर्कः=अन्नम्-निघ० २।७। वज्रः−२।२०। अर्को देवो भवति यदेनमर्चन्त्यर्को मन्त्रो भवति यदनेनार्चन्त्यर्कमन्नं भवत्यर्चति भूतान्यर्को वृक्षो भवति संवृतः कटुकिम्ना०-निरु० ५।४। शोभनान्नाः। सुवज्रिणः। सुपण्डिताः। सुमन्त्रिणः (तत्) ऐश्वर्यम् (अस्मभ्यम्) (सविता) सर्वस्रष्टा (सत्यधर्मा) सत्यानि धर्माणि धारणसामर्थ्यानि यस्य सः (प्रजापतिः) प्रजापालकः (अनुमतिः) अनुकूलो मतिर्बुद्धिर्यस्य सः (नि) नियमेन (यच्छात्) दद्यात् ॥