Go To Mantra
Viewed 112 times

तां स॑वितः स॒त्यस॑वां सुचि॒त्रामाहं वृ॑णे सुम॒तिं वि॒श्ववा॑राम्। याम॑स्य॒ कण्वो॒ अदु॑ह॒त्प्रपी॑नां स॒हस्र॑धारां महि॒षो भगा॑य ॥

Mantra Audio
Pad Path

ताम् । सवित: । सत्यऽसवाम् । सुऽचित्राम् । आ । अहम् । वृणे । सुऽमतिम् । विश्वऽवाराम् । याम् । अस्य । कण्व: । अदुहत् । प्रऽपीनाम् । सहस्रऽधाराम् । महिष: । भगाय ॥१६.१॥

Atharvaveda » Kand:7» Sukta:15» Paryayah:0» Mantra:1


PANDIT KSHEMKARANDAS TRIVEDI

आचार्य और ब्रह्मचारी के कृत्य का उपदेश।

Word-Meaning: - (सवितः) हे सब ऐश्वर्यवाले आचार्य ! (ताम्) उस (सत्यसवाम्) सत्य ऐश्वर्यवाली, (सुचित्राम्) बड़ी विचित्र, (विश्ववाराम्) सब से स्वीकार करने योग्य (सुमतिम्) सुमति [यथावत् विषयवाली बुद्धि] को (अहम्) मैं (आ) आदरपूर्वक (वृणे) माँगता हूँ, (याम्) जिस (प्रपीनाम्) बहुत बढ़ी हुई, (सहस्रधाराम्) सहस्रों विषयों की धारण करनेवाली [सुमति] को (अस्य) इस [जगत्] के (भगाय) ऐश्वर्य के लिये (कण्वः) मेधावी, (महिषः) पूजनीय परमात्मा ने (अदुहत्) परिपूर्ण किया है ॥१॥
Connotation: - तपस्वी ब्रह्मचारी और ब्रह्मचारिणी योगी, आप्त विद्वान् पुरुषों से संसार के हित के लिये परमेश्वरदत्त वेद द्वारा अपनी बुद्धि को बढ़ाते रहें ॥१॥ यह मन्त्र कुछ भेद से यजुर्वेद में है-अ० १७।७४ ॥
Footnote: १−(ताम्) (सवितः) सर्वैश्वर्यन्नाचार्य (सत्यसवाम्) सत्यैश्वर्ययुक्ताम् (सुचित्राम्) अमिचिमि०। उ० ४।१६४। चिञ् चयने−क्त्र। सुचयनीयाम्। महाविचित्रविषयाम् (आ) अङ्गीकारे (अहम्) स्त्री पुरुषो वा (वृणे) याचे (सुमतिम्) शोभनां यथाविषयां प्रज्ञाम् (विश्ववाराम्) सर्वैर्वरणीयाम् (याम्) सुमतिम् (अस्य) प्रसिद्धस्य जगतः (कण्वः) अ० २।३२।३। मेधावी निघ० ३।१५। (अदुहत्) परिपूरितवान् (प्रपीनाम्) प्यायतेः-क्त, पीभावः। प्रवृद्धाम् (सहस्रधाराम्) सहस्रमसंख्यानर्थान् धरति ताम् (महिषः) अ० २।२५।४। पूजनीयः परमेश्वरः (भगाय) ऐश्वर्याय ॥