Go To Mantra
Viewed 101 times

दमू॑ना दे॒वः स॑वि॒ता वरे॑ण्यो॒ दध॒द्रत्नं॑ पि॒तृभ्य॒ आयूं॑षि। पिबा॒त्सोमं॑ म॒मद॑देनमि॒ष्टे परि॑ज्मा चित्क्रमते अस्य॒ धर्म॑णि ॥

Mantra Audio
Pad Path

दमूना: । देव: । सविता । वरेण्य: । दधत् । रत्नम् । दक्षम् । पितृऽभ्य: । आयूंषि । पिबात् । सोमम् । ममदत् । एनम् । इष्टे । परिऽज्मा । चित् । क्रमते । अस्य । धर्मणि ॥१५.४॥

Atharvaveda » Kand:7» Sukta:14» Paryayah:0» Mantra:4


PANDIT KSHEMKARANDAS TRIVEDI

ईश्वर के गुणों का उपदेश।

Word-Meaning: - (दमूनाः) दमनशील शान्तस्वभाव, (देवः) व्यवहारकुशल, (वरेण्यः) स्वीकार योग्य (सविता) चलानेवाला पुरुष (पितृभ्यः) पालन करनेवाले विद्वानों के हित के लिये (रत्नम्) रमणीय धन, (दक्षम्) बल और (आयूंषि) जीवनसाधनों को (दधत्) धारण करता हुआ (सोमम्) अमृत का (पिबात्) पान करे, और (एनम्) इस [परमेश्वर] को (इष्टे) यज्ञ में (ममदत्) प्रसन्न करे, (परिज्मा) सब ओर चलनेवाला पुरुष (चित्) ही (अस्य) इस [परमेश्वर] के (धर्म्मणि) धर्म अर्थात् नियम में (क्रमते) चला जाता है ॥४॥
Connotation: - जो मनुष्य विद्वानों की सेवा करते हैं, और सर्वत्रगति होते हैं, वे ही आनन्दरस पीते हुए ईश्वर की आज्ञा का पालन करके आनन्द भोगते हैं ॥४॥
Footnote: ४−(दमूनाः) दमेरुनसि। उ० ४।२३५। दमु उपशमे-उनसि, वा दीर्घः। दमिता। शान्तस्वभावः। दमूना दममना वा दानमना वा दान्तमना वा। अथवा दम इति गृहनाम तन्मनाः स्यान्मनो मनोतेः-निरु० ४।४। (देवः) व्यवहारकुशलः (सविता) नायकः पुरुषः (वरेण्यः) वृञ एण्यः। उ० ३।९८। वृञ् वरणे-एण्य। स्वीकरणीयः (दधत्) धारयन् (रत्नम्) रमणीयं धनम् (दक्षम्) बलम् (पितृभ्यः) पालकानां विदुषां हिताय (पिबात्) लेटि रूपम्। पिबेत् (सोमम्) अमृतरसम् (ममदत्) लेडर्थे माद्यतेर्ण्यन्तात्, लुङि, चङि रूपम्। मदयेत्। तर्पयेत् (एनम्) अन्तर्यामिनं जगदीश्वरम् (इष्टे) यज्ञे (परिज्मा) श्वन्नुक्षन्पूषन्०। उ० १।१५९। अज गतिक्षेपणयोः कनिन्, मुडागमः, अकारलोपः। परितोगन्ता। सर्वत्रगतिः पुरुषः (चित्) एव (क्रमते) वृत्तिसर्गतायनेषु क्रमः पा० ३।१।३८। इत्यात्मनेपदम्। अप्रतिबद्धो गच्छति (अस्य) परमेश्वरस्य (धर्मणि) धारणीये नियमे ॥