Go To Mantra
Viewed 104 times

अ॒भि त्यं दे॒वं स॑वि॒तार॑मो॒ण्योः क॒विक्र॑तुम्। अर्चा॑मि स॒त्यस॑वं रत्न॒धाम॒भि प्रि॒यं म॒तिम् ॥

Mantra Audio
Pad Path

अभि । त्यम् । देवम् । सवितारम् । ओण्यो: । कविऽक्रतुम् । अर्चामि । सत्यऽसवम् । रत्नऽधाम् । अभि । प्रियम् । मतिम् ॥१५.१॥

Atharvaveda » Kand:7» Sukta:14» Paryayah:0» Mantra:1


PANDIT KSHEMKARANDAS TRIVEDI

ईश्वर के गुणों का उपदेश।

Word-Meaning: - (त्वम्) उस (देवम्) सुखदाता (ओण्योः) सूर्य और पृथिवी के (सवितारम्) उत्पन्न करनेवाले, (कविक्रतुम्) सर्वज्ञ बुद्धि वा कर्मवाले, (सत्यसवम्) सच्चे ऐश्वर्यवाले, (रत्नधाम्) रमणीय विज्ञानों वा हीरा आदिकों वा लोकों के धारण करनेवाले, (प्रियम्) प्रीति करनेवाले, (मतिम्) मनन करनेवाले, परमेश्वर को (अभि अभि) बहुत भले प्रकार (अर्चामि) मैं पूजता हूँ ॥१॥
Connotation: - राजा, प्रजा और सब विद्वान् लोग उस सर्वशक्तिमान् परमेश्वर की स्तुति, प्रार्थना, उपासना करके सदा धर्म के अनुकूल वरतें और आनन्द भोगें ॥१॥ मन्त्र १, २ कुछ भेद से सामवेद में हैं−पू० ५।८।८। और यजु० ४।२५ ॥
Footnote: १−(अभि अभि) सर्वतः सर्वतः (त्यम्) प्रसिद्धम् (देवम्) सुखदातारम् (सवितारम्) उत्पादकम् (ओण्योः) सर्वधातुभ्य इन्। उ० ४।११८। ओणृ अपनयने-इन्। कृदिकारादक्तिनः। वा० पा० ४।१।४५। इति ङीप्। द्यावापृथिव्योः-निघ० ३।३०। (कविक्रतुम्) कविः सर्वज्ञा क्रतुः प्रज्ञा कर्म वा यस्य तम्। कविः क्रान्तदर्शनो भवति कवतेर्वा-निरु० १२।१३। (अर्चामि) पूजयामि (सत्यसवम्) सत्यैश्वर्ययुक्तम् (रत्नधाम्) रत्नानि रमणीयानि विज्ञानानि हीरकादीनि भवनानि वा दधातीति तम् (प्रियम्) प्रीतिकरम्। (मतिम्) मनु अवबोधने-क्तिच्। मन्तारम्। मतयो मेधाविनः-निघ० ३।१५ ॥