Go To Mantra

मर्मा॑णि ते॒ वर्म॑णा छादयामि॒ सोम॑स्त्वा॒ राजा॒मृते॒नानु॑ वस्ताम्। उ॒रोर्वरी॑यो॒ वरु॑णस्ते कृणोतु॒ जय॑न्तं॒ त्वानु॑ दे॒वा म॑दन्तु ॥

Mantra Audio
Pad Path

मर्माणि । ते । वर्मणा । छादयामि । सोम: । त्वा । राजा । अमृतेन । अनु । वस्ताम् । उरो: । वरीय: । वरुण: । ते । कृणोतु । जयन्तम् । त्वा । अनु । देवा: । मदन्तु ॥१२३.१॥

Atharvaveda » Kand:7» Sukta:118» Paryayah:0» Mantra:1


Reads 60 times

PANDIT KSHEMKARANDAS TRIVEDI

सेनापति के कर्तव्य का उपदेश।

Word-Meaning: - [हे शूरवीर !] (ते) तेरे (मर्माणि) मर्मों को (वर्मणा) कवच से (छादयामि) मैं [सेनापति] ढाँकता हूँ, (सोमः) ऐश्वर्यवान् (राजा) राजा [कोशाध्यक्ष] (त्वा) तुझको (अमृतेन) अमृत [मृत्युनिवारक, शस्त्र, अस्त्र, वस्त्र, अन्न, औषध आदि] से (अनु) निरन्तर (वस्ताम्) ढके। (वरुणः) श्रेष्ठ पुरुष [चतुर मार्गदर्शक] (ते) तेरे लिये (उरोः) चौड़े से (वरीयः) अधिक चौड़ा [स्थान] (कृणोतु) करे, (जयन्तम्) विजयी (त्वा अनु) तेरे पीछे (देवाः) विजय चाहनेवाले पुरुष (मदन्तु) आनन्द पावें ॥१॥
Connotation: - सर्वाधीश मुख्य सेनापति अधिकारियों द्वारा योद्धाओं को समस्त आवश्यक सामग्री देकर उत्साहित करे, जिससे सब वीर आनन्दध्वनि करते हुए विजयी होवें ॥१॥ यह मन्त्र ऋग्वेद में है-म० ६।७५।१८; यजुः०−१७।४९; साम० उ० ९।३।८ ॥ इति दशमोऽनुवाकः ॥ इति सप्तदशः प्रपाठकः ॥ इति सप्तमं काण्डम् ॥ इति श्रीमद्राजाधिराजप्रथितमहागुणमहिमश्रीसयाजीरावगायकवाड़ाधिष्ठितबड़ोदेपुरीगतश्रावणमासपरीक्षायाम् ऋक्सामाथर्ववेदभाष्येषु लब्धदक्षिणेन श्रीपण्डितक्षेमकरणदासत्रिवेदिना कृते अथर्ववेदभाष्ये सप्तमं काण्डं समाप्तम् ॥
Footnote: १−(मर्माणि) सर्वधातुभ्यो मनिन्। उ० ४।१४५। मृङ् प्राणत्यागे-मनिन्। शरीरसन्धिस्थानानि (ते) तव (वर्मणा) कवचेन (छादयामि) संवृणोमि (सोमः) ऐश्वर्यवान् (राजा) शासकः कोशाध्यक्षः (अमृतेन) मृत्युनिवारकेण शस्त्रास्त्रवस्त्रान्नौषधादिना वस्तुना (अनु) निरन्तरम् (वस्ताम्) आच्छादयतु (उरोः) उरुणः। विस्तृतात् (वरीयः) उरुतरं (स्थानम्) (वरुणः) श्रेष्ठो मार्गदर्शकः (कृणोतु) करोतु (जयन्तम्) अ० ६।९७।३। विजयिनम् (त्वा) (अनु) अनुलक्ष्य (देवाः) विजिगीषवो वीराः (मदन्तु) हृष्यन्तु ॥