Go To Mantra
Viewed 95 times

या मा॑ ल॒क्ष्मीः प॑तया॒लूरजु॑ष्टाभिच॒स्कन्द॒ वन्द॑नेव वृ॒क्षम्। अ॒न्यत्रा॒स्मत्स॑वित॒स्तामि॒तो धा॒ हिर॑ण्यहस्तो॒ वसु॑ नो॒ ररा॑णः ॥

Mantra Audio
Pad Path

या । मा । लक्ष्मी: । पतयालू: । अजुष्टा: । अभिऽचस्कन्द । वन्दनाऽइव । वृक्षम् । अन्यत्र । अस्मत् । सवित: । ताम् । इत: । धा: । हिरण्यऽहस्त: । वसु । न: । रराण: ॥१२०.२॥

Atharvaveda » Kand:7» Sukta:115» Paryayah:0» Mantra:2


PANDIT KSHEMKARANDAS TRIVEDI

दुर्लक्षण के नाश का उपदेश।

Word-Meaning: - (या) जो (पतयालूः) गिरानेवाला (अजुष्टा) अप्रिय (लक्ष्मीः) लक्षण (मा) मुझ पर (अभिचस्कन्द) आ चढ़ा है, (इव) जैसे (वन्दना) बेल (वृक्षम्) वृक्ष पर। (सवितः) हे ऐश्वर्यवान् [परमेश्वर !] (हिरण्यहस्तः) तेज वा सुवर्ण हाथ में रखनेवाला, (नः) हमें (वसु) धन (रराणः) देता हुआ तू (इतः) यहाँ से, (अस्मत्) हमसे (अन्यत्र) दूसरे [दुष्टों में] (ताम्) उसको (धाः) धर ॥२॥
Connotation: - मनुष्य परमात्मा के अनुग्रह से अधर्मरूप दुर्लक्षणों और दुष्टों से बचकर शुभ गुण प्राप्त करें ॥२॥
Footnote: २−(या) (मा) माम् (लक्ष्मीः) म० १। लक्षणम् (पतयालूः) स्पृहिगृहिपतिदयि०। पा० ३।२।१५८। पत गतौ, चुरादिः, अदन्तः-आलुच्। ऊङुतः। पा० ४।१।६६। ऊङ् स्त्रियाम्। पातयित्री। दुर्गतिकारिणी (अजुष्टा) अप्रिया (अभिचस्कन्द) स्कन्दिर् गतिशोषणयोः-लिट्। अभितः प्राप (वन्दना) सू० ११३ म० १ लता (इव) यथा (वृक्षम्) (अन्यत्र) अन्येषु दुष्टेषु (अस्मत्) अस्मत्तः धार्मिकेभ्यः (सवितः) हे परमैश्वर्यवन् परमात्मन् (ताम्) लक्ष्मीम्। लक्षणम् (इतः) अस्मात् स्थानात् (धाः) दध्याः (हिरण्यहस्तः) हिरण्यं तेजः सुवर्णं वा हस्ते वशे यस्य सः (वसु) धनम् (नः) अस्मभ्यम् (रराणः) अ० ५।२७।११। ददानः ॥