Go To Mantra
Viewed 85 times

यो नः॑ सु॒प्ताञ्जाग्र॑तो वाभि॒दासा॒त्तिष्ठ॑तो वा॒ चर॑तो जातवेदः। वै॑श्वान॒रेण॑ स॒युजा॑ स॒जोषा॒स्तान्प्र॒तीचो॒ निर्द॑ह जातवेदः ॥

Mantra Audio
Pad Path

य: । न: । सुप्तान् । जाग्रत: । वा । अभिऽदासात् । तिष्ठत: । वा । चरत: । जातऽवेद: । वैश्वानरेण । सऽयुजा । सऽजोषा: । तान् । प्रतीच: । नि: । दह । जातऽवेद: ॥११३.२॥

Atharvaveda » Kand:7» Sukta:108» Paryayah:0» Mantra:2


PANDIT KSHEMKARANDAS TRIVEDI

शत्रुओं के नाश का उपदेश।

Word-Meaning: - (जातवेदः) हे प्रसिद्ध ज्ञानवाले राजन् ! (यः) जो कोई पुरुष (सुप्तान्) सोते हुए, (वा) वा (जाग्रतः) जागते हुए, (तिष्ठतः) ठहरे हुए, (वा) वा (चरतः) चलते हुए (नः) हमको (अभिदासात्) सतावे। (जातवेदः) हे प्रसिद्ध धनवाले राजन् ! (वैश्वानरेण) सब नरों के हितकारी (सयुजा) समानमित्र [परमेश्वर] के साथ (सजोषाः) प्रीतिवाला तू (प्रतीचः) चढ़ाई करनेवाले (तान्) उनको (निः) निरन्तर (दह) भस्म करदे ॥२॥
Connotation: - राजा परमेश्वर के सहाय से आत्मबल बढ़ाकर सब डाकू उचक्कों का नाश करके प्रजा की रक्षा करें ॥२॥
Footnote: २−(यः) शत्रुः (नः) अस्मान् (सुप्तान्) निद्राणान् (जाग्रतः) अ० ६।९६।३। प्रबुद्ध्यमानान् (वा) (अभिदासात्) अ० ५।६।१०। अभितो दास्नुयात्। हिंस्यात् (तिष्ठतः) स्थितियुक्तान् (वा) (चरतः) चलनशीलान् (जातवेदः) अ० १।७।२। हे प्रसिद्धज्ञान (वैश्वानरेण) अ० १।१०।४। सर्वनरहितेन (सयुजा) समानमित्रेण। परमेश्वरेण (सजोषाः) सहप्रीतिः (तान्) शत्रून् (प्रतीचः) अ० १।२८।२। प्रतिकूलगतीन् (निः) निरन्तरम् (दह) भस्मसात् कुरु (जातवेदः) हे प्रसिद्धधन ॥