Go To Mantra
Viewed 135 times

यत्स्वप्ने॒ अन्न॑म॒श्नामि॒ न प्रा॒तर॑धिग॒म्यते॑। सर्वं॒ तद॑स्तु मे शि॒वं न॒हि तद्दृ॒ष्यते॒ दिवा॑ ॥

Mantra Audio
Pad Path

यत् । स्वप्ने । अन्नम् । अश्नामि । न । प्रात: । अध‍िऽगम्यते । सर्वम् । तत् । अस्तु । मे । शिवम् । नहि । तत् । दृश्यते । दिवा ॥१०६.१॥

Atharvaveda » Kand:7» Sukta:101» Paryayah:0» Mantra:1


PANDIT KSHEMKARANDAS TRIVEDI

अविद्या के नाश का उपदेश।

Word-Meaning: - (यत्) जो कुछ (अन्नम्) अन्न (स्वप्ने) स्वप्न में (अश्नामि) मैं खाता हूँ, [वह] (प्रातः) प्रातःकाल (न) नहीं (अधिगम्यते) मिलता है। (तत्) वह (सर्वम्) सब (मे) मेरे लिये (शिवम्) कल्याणकारी (अस्तु) होवे, (तत्) वह (दिवा) दिन में (नहि) नहीं (दृश्यते) दीखता है ॥१॥
Connotation: - जैसे इन्द्रियों की चंचलता से स्वप्न में खाया अन्न शरीरपोषक नहीं होता, वैसे ही अविद्याजन्य सुख इष्टसाधक नहीं होता ॥१॥
Footnote: १−(यत्) यत्किञ्चित् (स्वप्ने) निद्रायाम् (अन्नम्) भोजनम् (अश्नामि) अश भोजने। खादामि (न) निषेधे (प्रातः) प्रभाते (अधिगम्यते) लभ्यते (सर्वम्) (तत्) स्वप्नफलम् (अस्तु) (मे) मह्यम् (शिवम्) मङ्गलकरम् (नहि) नैव (तत्) अन्नम् (दृश्यते) निरीक्ष्यते (दिवा) दिने ॥